________________
प्रश्नब्याक र० श्रीअभयदेव० वृत्तिः
१ संवर
द्वारे अहिंसाया नामानि कारका भावनाश्च सू० २३
॥११२॥
पंचमगंति पञ्चमं भावनावस्तु आदाननिक्षेपसमितिलक्षणं, एतदेवाह-पीठादि द्वादशविधमुपकरणं प्रसिद्ध 'एयंपीति एतदपि अनन्तरोदितमुपकरणं अपिशब्दादन्यदपि संयमस्योपबृंहणार्थतया-संयमपोषणाय तथा वातातपदंशमशकशीतपरिरक्षणार्थतया उपकरणं-उपकारक उपधिं रागद्वेषरहितं क्रियाविशेषणमिदं 'परिहरि- यव्वं ति परिभोक्तव्यं, न विभूषादिनिमित्तमिति भावना, संयतेन-साधुना नित्यं-सदा तथा प्रत्युपेक्षणा-| प्रस्फोटनाभ्यां सह या प्रमार्जना सा तथा तया, तत्र प्रत्युपेक्षणया-चक्षुापारेण प्रस्फोटनया-आस्फोटनेन| प्रमार्जनया च-रजोहरणादिव्यापाररूपया, 'अहो य राओ य'त्ति अहि च रात्रौ च अप्रमत्तेन भवति सततं निक्षेप्तव्यं च-मोक्तव्यं ग्रहीतव्यं च-आदातव्यं, किं तदित्याह-भाजनं-पात्रं भाण्डं-तदेव मृन्मयं उपधिश्चवस्त्रादिः एतनथलक्षणमुपकरणं-उपकारि वस्त्विति कर्मधारयः, निगमयन्नाह-एवमादाने'त्यादि पूर्ववत् नवरं इह प्राकृतशैल्याऽन्यथा पूर्वापरपदनिपातः तेन भाण्डस्य-उपकरणस्यादानं 'व-ग्रहणं निक्षेपणा चमोचनं तत्र समितिः भाण्डादाननिक्षेपणासमितिरिति वाच्ये आदानभाण्डनिक्षेपणासमितिरित्युक्तं, अथाध्ययनार्थ निगमयन्नाह–'एव'मिति उक्तक्रमेण इदं-अहिंसालक्षणं संवरस्य-अनाश्रवस्य द्वारं-उपायः सम्यक संवृतं-आसेवितं भवति, किंविधं सदित्याह-मुप्रणिहितं-सुप्रणिधानवत् सुरक्षितमित्यर्थः, कैः किं-1 विधैरित्याह-एभिः पञ्चभिरपि कारणैः-भावनाविशेषैः अहिंसापालनहेतुभिः मनोवाकायपरिरक्षितैरिति, तथा नित्यं-सदा आमरणान्तं च-मरणरूपमन्तं यावत् न मरणात्परतोऽपि असम्भवात् , तथा एषः-योगोऽ
११२॥
in Ede
For Personal & Private Use Only
alanelbrary.org