SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ यस्यास्त्य सावनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुरंति एवंभूतशब्दरहितं 'अचवचवं'ति चवचवेतिशब्दरहितं अद्भुतं - अनुत्सुकं अविलम्बितं - अनतिमन्दं अपरिशादि-परिशादिवर्जितं 'भुंजेज्जा' इति क्रियाया विशेषणानीमानि, 'आलोयभायणे'त्ति प्रकाशमुखे भाजने अथवा आलोके - प्रकाशे नान्धकारे, पिपीलिकावालादीनामनुपलम्भात्, तथा भाजने -पात्रे, पात्रं विना जलादिसम्पतितसत्त्वादर्शनादिति, यतं - मनोवाकाय संयतत्वेन प्रयत्नेन - आदरेण व्यपगत संयोगं-संयोजनादोषरहितं 'अणिंगालं वत्ति रागपरिहारेणेत्यर्थः 'विगयधूमं 'ति द्वेषरहितं, आह च - "रागेण सइंगालं दोसेण सधूमगं विद्याणाहि" ति [ रागेण साङ्गारं द्वेषेण सधूमकं विजानीहि ] अक्षस्य-धुरः उपाञ्जनं-म्रक्षणं अक्षोपाञ्जनं तच्च व्रणानुलेपनं च ते भूतं प्राप्तं यत्तत्तथा तत्कल्पमित्यर्थः, संयमयात्रा - संयमप्रवृत्तिः सैव संयमयात्रामात्रा तत् निमित्तं - हेतुर्यत्र तत्संयमयात्रामात्रानिमित्तं, किमुक्तं भवति ? - संयम भारवहनार्थतया, इयं भावना-इह यथाऽक्षस्योपाञ्जनं भारवहनायैव विधीयते न प्रयोजनान्तरे एवं संयमभारवहनायैव साधुर्भुञ्जीत न वर्णबलरूपनिमित्तं विषयलौल्येन वा, भोजन| विकलो हि न संयमसाधनं शरीरं धारयितुं समर्थों भवतीति 'भुंजेज 'त्ति भुञ्जीत भोजनं कुर्वीत, तथा भोजने कारणान्तरमाह-प्राणधारणार्थतया - जीवितव्यसंरक्षणायेत्यर्थः, संयतः - साधुः, णमिति वाक्यालङ्कारे, 'समय'ति सम्यकू, निगमयन्नाह - एवमाहारसमितियोगेन भावितः सन् भावितो भवन्त्यन्तरात्मा अशबलासङ्किष्टनिर्ब्र|णचारित्र भावनाकः अशबलासक्लिष्टनिर्व्रणचारित्रभावनया वा हेतुभूतया अहिंसकः संयतः सुसाधुरिति । Jain Education International For Personal & Private Use Only jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy