________________
-
MARGAON
-प्रवचनं शासनं भगवता श्रीमन्महावीरेण सुकथितं न्यायाबाधितत्वेन आत्मनां-जीवानां हितं आत्महितं 'पेचाभावियंति प्रेत्य-जन्मान्तरे भवति-शुद्धफलतया परिणमतीत्येवंशीलं प्रेत्यभाविकं आगमिष्यति काले भद्रं-कल्याणं यतस्तदागमिष्यद्भद्रं शुद्धं-निर्दोषं 'नेआउयंति नैयायिकं न्यायवृत्ति अकुटिलं-मोक्षं प्रति ऋजु अनुत्तरं सर्वेषां दुःखानां-असुखानां पापानां च तत्कारणानां व्यपशमनं-उपशमकारकं यत्तत्तथा। अथ यदुक्तं 'तीसे सभावणाए उ किंचि वोच्छं गुणुद्देसं ति तत्र का भावनाः?, अस्यां जिज्ञासायामाह'तस्से त्यादि तस्य-प्रथमस्य व्रतस्य भवन्तीति घटना, इमाः-वक्ष्यमाणप्रत्यक्षाः पञ्च भावनाः, भाव्यते-वास्यते व्रतेनात्मा यकाभिस्ता भावनाः-ईर्यासमित्यादयः, किमर्था भवन्तीत्याह-पाणा' इत्यादि, प्रथमव्रतस्य यत्प्राणातिपातविरमणलक्षणं खरूपं तस्य परिरक्षणार्थाय 'पढमति प्रथमं भावनावस्त्विति गम्यते, स्थाने गमने च गुणयोगं-खपरप्रवचनोपघातवर्जनलक्षणगुणसम्बन्धं योजयति-करोति या सा तथा, युगान्तरे
यूपप्रमाणभूभागे निपतति या सा युगान्तरनिपातिका ततः कर्मधारयस्ततस्तया दृष्ट्या-चक्षुषा 'इरियव्वं ति 8/-ईरितव्यं-गन्तव्यं, केनेत्याह-कीटपतङ्गादयस्त्रसाश्च स्थावराश्च कीटपतङ्गात्रसस्थावरास्तेषु दयापरो यस्तेन,
नित्यं पुष्पफलत्वप्रवालकन्दमूलदकवृत्तिकाबीजहरितपरिवर्जकेन सम्यगिति प्रतीतं नवरं प्रवालः-पल्लवाङ्करः दकं-उदकमिति, अथेर्यासमित्या प्रवर्त्तमानस्य यत्स्यात्तदाह-एवं खलु'त्ति एवं च ई-समित्या प्रवर्त्तमानस्येत्यर्थः सर्वे प्राणा सर्वे जीवा न हीलयितव्या-अवज्ञातव्या भवन्ति, संरक्षणप्रयतत्वात् न तानव
CSCACANCARNA-NCACANCCE
Jain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org