________________
प्पिष्कैः-दुग्धक्षौद्रघृतवर्जकैः [अमद्यमांसाशिभिः] 'ठाणाइएहिंति स्थान-ऊर्ध्वस्थानं निषीदनस्थानं त्वग्वहार्तनस्थानं तदभिग्रहविशेषेणाददति-विदधति येते तथा तैः, एतदेव प्रपञ्चयति-प्रतिमास्थायिभिः' प्रति
मया-कायोत्सर्गेण भिक्षुप्रतिमया वा मासिक्यादिकया तिष्ठन्ति येते तथा तैः, स्थानमुत्कटुकं येषां ते स्थानोत्कटुकास्तैः वीरासनं-भून्यस्तपादस्य सिंहासनोपवेशनमिव तदस्ति येषां ते वीरासनिकास्तैः निषद्यासमपुतोपवेशनादिका तया चरन्तीति नैषधिकास्तैः, दण्डस्येवायतं संस्थानं येषामस्ति ते दण्डायतिकास्तैः, लगंडं-दुःसंस्थितं काष्ठं तद्वच्छिरःपाणीनां भूलग्नेन शेरते ये ते लगण्डशायिनस्तैः, उक्तं च-"वीरासणं तु सीहासणे व्व जह मुक्कजाणुग [मुत्कलपादः> णिविट्ठो। दंडगलगंडउवमा आयत कुजे य दोहंपि ॥१॥" [ दण्डे आयतः लगण्डे कुब्जः] एक एव पार्थो भूम्या सम्बध्यते येषां न द्वितीयेन पार्श्वेन भवन्तीत्येकपाचिंकास्तैः, आतापन:-आतापनाकारिभिरिति, आतापना च त्रिविधा, यत आह-"आयावणा उ तिविहा उक्कोसा मज्झिमा जहन्ना य । उक्कोसा उणिवन्ना णिसन्न मज्झा ठिय जहन्ना ॥१॥" [आतापना तु त्रिविधा उत्कृष्टा मध्यमा जघन्या च । उत्कृष्टा तु सुप्तस्य मध्यमा निषण्णस्य स्थितस्य जघन्या] अप्रावृतैः-प्रावरणवर्जितैः 'अनिट्ठभएहिं ति अनिष्ठीवकैर्मुखश्लेष्मणोऽपरिष्ठापकैः "अकण्डूयकैः' अकण्डूयनकारकैः ‘धूतकेशश्मश्रुरोमनखैः' धूताः-संस्कारापेक्षया त्यक्ताः केशाः-शिरोजाः श्मश्रूणि-कूर्चाः केशाः रोमाणि-कक्षादिलोमानि नखाश्च प्रसिद्धा यैस्ते तथा तैः सर्वगात्रप्रतिकर्मविप्रमुक्तः अभ्यङ्गादिवर्जनात् 'समणुचिन्न'त्ति सम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org