________________
१ संवर
प्रश्वव्याक२०श्रीअभवदेव० वृत्तिः
द्वारे
॥१०६॥
दीयमानमन्नादि ग्राह्यमित्येवंरूपः कल्पः-समाचारो येषां ते संसृष्टकल्पिकास्तैः, यत्प्रकारं देयं द्रव्यं तज्जातेन-तत्प्रकारेण द्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राद्यमित्येवंरूपः कल्पः-समाचारो येषां ते तज्जातसंसृष्टकल्पिकास्तैः, उपनिधिना-प्रत्यासत्त्या चरन्ति-प्रत्यासन्नमेव गृह्णन्ति येते औपनिधिकाः तैः 'शुद्धषणिकाः' शङ्कितादिदोषपरिहारचारिणस्तैः सङख्याप्रधानाभिः पञ्चषादिपरिमाणवतीभिर्दत्तिभिःसकृद्भक्तादिपात्रपातलक्षणाभिश्चरन्ति ये ते सख्यादत्तिकास्तैः, दत्तिलक्षणं चैतत्-'दत्तीओ जत्तिए वारे, |खिवई होंति तत्तिया। अब्बोच्छिन्ननिवायाओ, दत्ती होति दवेतरा ॥१॥ [दत्तयो यावतो वारान् क्षिपति भवन्ति तावत्यः। अव्यवच्छिन्ननिपातात् दत्तिर्भवति द्रवेतरयोः॥१॥] दृष्टिलाभिका:-ये दृश्यमानस्थानादानीतं गृह्णन्ति, अदृष्टिलाभिका ये अदृष्टपूर्वेण दीयमानं गृह्णन्ति, पृष्टलाभिका ये कल्पते इदं इदं च |भवते साधो! इत्येवं प्रश्नपूर्वकमेव लब्धं गृह्णन्ति, भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य-ओदनादिपिण्डस्य पातः-पात्रक्षेपो येषां ग्राह्यतयाऽस्ति ते भिन्नपिण्डपातिकाः तैः, परिमितपिण्डपातिकैः-परिमितगृहप्रवेशा|दिना वृत्तिसङ्केपवद्भिः, "अंताहारे'त्यादि अन्तादीनि पदानि प्राग्वदेव नवरं पूर्वत्र चरणं गवेषणमात्रमुक्त|मिह त्वाहारो-भोजनं जीवनं तु-तथैवाजन्मापि प्रवृत्तिरिति विशेषोऽवसेयः, तथा अरसं-हिङ्ग्वादिभिरसंस्कृतं विरसं-पुराणत्वात् गतरसं तथा तुच्छं-अल्पं, तथा उपशान्तजीविभिः अन्तवृत्त्यपेक्षया प्रशान्तजी|विभिः बहिर्वृत्त्यपेक्षया, विविक्तैः-दोषविकलैर्भक्तादिभिर्जीवन्ति ये ते विविक्तजीविनस्तैः, अक्षीरमधुस
अहिंसाया नामानि कारका भावनाश्च सू० २३
॥१०६॥
Jain Education Ternational
For Personal & Private Use Only
www.jainelibrary.org