________________
पदेशकर्मक्षयोपशमादि बाह्याभ्यन्तरं कारणमस्याः, प्रमत्तयोगात् प्राणव्यपरोपणलक्षणहिंसाप्रतिपक्षः खरूपं स्वर्गापवर्गप्राप्सिलक्षणं च कार्यमिति, तथा अवधिजिना-विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता-ज्ञपरिज्ञया बुद्धा प्रत्याख्यानपरिज्ञया च सेविता, ऋज्वी-मनोमात्रग्राहिणी "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणति ॥१॥"त्ति [ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानं । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥१॥] वचनात् मतिः-मनःपर्यायज्ञानविशेषो येषां ते ऋजुमतयस्तैरपि दृष्टा-अवलोकिता विपुलमतयो-मनोविशेषग्राहिमनःपर्यायज्ञानिना, उक्तं च-"विउलं वत्थुविसेसणमाणं तग्गाहिणी मई विउला। चिंतियमणुसरह घडं पसंगओ पजवसएहिं ॥१॥”[विपुलं वस्तुविशेषणमानं तद्वाहिणी मतिर्विपला चिन्तितमनुसरति घट प्रसङ्गतः पर्यवशतैः ॥१॥] तैरपि विदिताज्ञाता पूर्वधरैरधीता-श्रुतनिबद्धा सती पठिता, 'वेउव्वीहिं पइन्न'त्ति विकुर्विभिः-वैक्रियकारिभिः प्रतीर्णा-निस्तीणो आजन्म पालितेत्यर्थः, 'आभिणिबोहियणाणीही त्यादि 'समणुचिन्ने 'त्येतदन्तं सुगम, नवरं 'आमोसहिपत्तेहिं ति आमर्श:-संस्पर्शः स एवौषधिरिवौषधिः-सर्वरोगापहारित्वात्तपश्चरणप्रभवो लब्धिविशेषः तां प्राप्ता येते तथा तैः, एवमुत्तरत्रापि, नवरं खेलो-निष्ठीवनं जल्ल:-शरीरमलः 'विप्पोसहि'त्ति विनुषो-मूत्रपुरीषावयवाः अथवा वित्ति-विट् विष्ठा पत्ति-प्रश्रवणं मूत्रं, शेषं तथैव, 'सव्वोसहित्ति सर्व एवानन्तरो|दिता आमादयोऽन्ये च बहव औषधयः सर्वोषधयः, बीजकल्पा बुद्धिर्येषां ते बीजबुद्धयः-अर्थमात्रमवाप्य
dain Education International
For Personal & Private Use Only
www.jainelibrary.org