________________
प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः
१ संवर
द्वारे अहिंसाया नामानि कारका भावनाश्च सू०२३
॥१०५॥
नानार्थसमूहाभ्यूहिका बुद्धिर्येषां ते इत्यर्थः, कोष्ठ इव बुद्धिर्येषां ते कोष्ठबुद्धयः सकृज्ज्ञाताविनष्टवुद्धय इ-1 त्यर्थः, पदेनैकेन पदशतान्यनुसरन्ति पदानुसारिणः, इह गाथा भवन्ति-"संफरिसणमामोसो मुत्तपुरीसाण विप्पुसो विप्पा । अन्ने विडत्ति विट्ठा भासंति य पत्ति पासवणं ॥१॥ एए अन्ने य बह जेसिं सब्वे य सुरभओऽवयवा । रोगोवसमसमत्था ते होंति तओसहिप्पत्ता ॥२॥ जो सुत्तपएण पहुं सुयमणुधावइ पयाणुसारी सो। जो अत्थपएणऽत्थं अणुसरइ स बीयबुद्धीओ॥३॥ कोट्टयधन्नसुनिग्गल सुत्तत्था कोहबुद्धीया" तथा सम्भिन्न-सर्वतः सर्वशरीरावयवैः शृण्वन्तीति सम्भिन्नश्रोतारः अथवा संभिन्नानि-प्रत्येक ग्राहकत्वेन शब्दादिविषयैः व्यासानि श्रोतांसि-इन्द्रियाणि येषां ते संभिन्नश्रोतसः सामस्त्येन वा भिन्नान-परस्परभेदेन शब्दान् शृण्वन्तीति सम्भिन्नश्रोतारस्तैः, इह गाथा-"जो सुणइ सवओ मुणइ सव्वविसए व सव्वसोएहिं । सुणइ बहुए व सद्दे भन्नइ संभिन्नसोओ सो ॥ १ ॥” मनोबलिकैः-निश्चलमनोभिः वाग्बलिकैः-दृढप्रतिज्ञैः कायबलिकैः-परीषहापीडितशरीरैः ज्ञानादिबलिकैः-दृढज्ञानादिभिः क्षीरमिव मधुरं वचनमाश्रवन्ति-क्षरन्ति येते क्षीराश्रवा-लब्धिविशेषवन्तस्तैः, एवमन्यदपि पदद्वयं, इह गाथाई-खीरमहुसप्पिसाओवमा उ वयणे तदासवा हुंति।" महानसं-रसवतीस्थानमुपचाराद्रसवत्यपि अक्षीणं महानसं येषां ते अक्षीणमहानसिकाः, स्वार्थानीतभक्तेन लक्षमपि तृप्तितो भोजयतां यावदात्मना न तद्भुक्तं तावन्न क्षीयते तयेषां ते इति भावना, अतस्तैः, तथाऽतिशयचरणाचारणा-विशिष्टाकाशगमनलब्धियुक्ताः ते च
॥१०५॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org