SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ पयकोडीए पलालभूयाए । जत्थेत्तियं न नायं परस्स पीडा न कायव्वा ॥१॥' [किं तया पठितया पदकोट्या पलालभूतया। यत्रेयत् न ज्ञातं परस्य पीडा न कर्त्तव्या ॥१॥] कल्याणं कल्याणप्रापकत्वात् मङ्गलं दुरितोपशाशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धनत्वात् रक्षा जीवरक्षणखभावत्वात VIसिद्ध्यावासः मोक्षवासनिबन्धनत्वात् अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनां स्थानं केवलिनामहिं8सायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्ति ये शिवहेतुत्वेन शिवं समितिः-सम्यकप्रवृत्तिस्तद्रूपत्वा दहिंसा समितिः शीलं-समाधानं तद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शने चः समुच्चये ४०, 'सीलपरिघरो'त्ति शीलपरिगृहं-चारित्रस्थानं संवरश्च प्रतीतः गुप्ति:-अशुभानां मनाप्रभृतीनां निरोधः विशि-I Bष्टोऽवसायो-निश्चयो व्यवसायः उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयः य जन-अभयस्य दानं यतनं वा-प्राणिरक्षणं प्रयत्न:-अप्रमादःप्रमादवर्जनं आश्वासः-आश्वासनं प्राणिनामेव ५० विश्वासो-विश्रंभः 'अभउ'त्ति अभयं सर्वस्यापीति प्राणिगणस्य 'अमाघातः' अमारिः चोक्षपवित्रा एकार्थशब्दद्वयोपादानात् अतिशयपवित्रा शुचि:-भावशौचरूपा, आह च-"सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमम् ॥१॥” इति, पूता-पवित्रा पूजा वा भावतो देवताया अर्चनं विमलः प्रभासा च तन्निबन्धनत्वात् 'निम्मलयर'त्ति निर्मलं जीवं करोति या सा तथा अतिशयेन वा निर्मला निर्मलतरा ६०, इतिः नाम्नांसमाप्तौ, एवमादीनि-एवंप्रकाराणि निजकगुणनिर्मितानि यथार्थानीत्यर्थः, Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy