________________
54RSHAGRA-90%
वन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना । अथ प्रथमसंवरनिरूपणायाह-'तत्थे'त्यादि, तत्र-तेषु पचसु संवरद्वारेषु मध्ये प्रथम-आद्यं संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवोत्ति द्वीपो दीपो वा यथाऽगाधजलधिमध्यमग्नानां खैरं श्वापदकदम्बकदर्थितानां महोमिमालामध्यमानगात्राणां त्राणं भवति द्वीपः प्राणिनां एवमियमहिंसा संसारसागरमध्यमधिगतानां व्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथा वा दीपोऽन्धकारनिराकृतहकप्रसराणां हेयोपादेयार्थहानोपादानविमूढमनसां तिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणं भवत्येवमहिंसा ज्ञानावरणादिकर्मतमिस्रस्रंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्त्तनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता, तथा त्राणं खपरेषामापदः संरक्षणात् तथा शरणं तथैव सम्पदः सम्पादकत्वात् गम्यते-श्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निवृत्तिः-खास्थ्यं समाधिः-समता शक्तिः शक्तिहेतुत्वात् शान्तिा-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च-निवृत्तिः पापात् श्रुतं-श्रुतज्ञानमङ्ग-कारणं यस्याः सा श्रुताङ्गा, आह च-"पढमं नाणं तओ दए". त्यादि, तृप्तिहेतुत्वात्तृप्तिः, ततः कर्मधारयः, १०, तथा दया-देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्ति:-क्रोधनिग्रहस्तजन्यत्वादहिंसाऽपि क्षान्तिरुक्ता सम्यक्त्वं-सम्यग्बोधिरूपमा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org