________________
इव पाशो-बन्धनं प्रतिबन्धः-प्रतिबन्धस्थानमभिष्वङ्गाश्रय इत्यर्थः, तथा अस्ति सर्वजीवानां सर्वलोके परि|ग्रह इति गम्यं, अविरतिद्वारेण सूक्ष्माणामपि परिग्रहसंज्ञासद्भावादिति । यथा कुर्वन्तीत्युक्तं, अथ यादृशं फलं परिग्रहो ददाति तदुच्यते-परलोगम्मि यत्ति परलोके च-जन्मान्तरविषये चशब्दादिहलोके च नष्टाः सुगतिनाशात् सत्पथभ्रंशाच 'तमं पविद्य'त्ति अज्ञानमग्नाः 'महयामोहमोहियमईत्ति प्राकृतत्वान्महामोहेन-प्रकृष्टोदयचारित्रमोहनीयेन मोहितमतयः, किम्भूत इत्याह-तमिस्रा-रजनी तद्वदज्ञानादन्धकारो यः स तमिस्रान्धकारस्तत्र, केषु जीवस्थानेषु नष्टा इत्याह-त्रसस्थावरसूक्ष्मबादरेषु 'पजत्तग' इह एवं यावत्करणादिदं दृश्यं 'पजत्तमपजत्तगसाहारणपत्तेयसरीरसु य अण्डजपोतजजरायुजरसजसंसेइमसमुच्छिमउन्भितउववाइएसु य नरगतिरियदेवनगुस्से सु जरामरणरोगसोगबहुलेसु पलिओवमसागरोवमाणि अणाइयं अणवयग्गं दीहमदं चाउरंतसंसारकतार'मिति, अस्य च व्याख्या चतुर्थाध्ययनवदवसेया, के एवं फलभुजो भ-18 वन्तीत्याह-जीवा 'लोभवससन्निविट्ठा' लोभवशेन परिग्रहे सन्निविष्ठा अभिनिविष्टा इत्यर्थः, 'एसो सो इत्याद्यध्ययननिगमनं व्याख्या चास्य पूर्ववदिति । अधुनाऽऽश्रवपञ्चकनिगमनाय गाथाकदम्बकमाह-एएहिर गाहा, एतैः-अनन्तरोपवर्णितस्वरूपैः पञ्चभिः असंवरैः-प्राणातिपातादिभिराश्रवैः रज इव रजो-जीवस्वरूपोपरञ्जनात्कर्म ज्ञानावरणादि 'अचिणितु' आचित्य आत्मप्रदेशैः सहोपचित्य 'अनुसमयं प्रतिक्षणं चतुर्विधाचतुःप्रकारा देवादिभेदेन गतिः-गतिनामकर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो-विभागो यस्य स तथा तं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org