________________
प्रश्नव्याक
र० श्रीअ
भयदेव०
वृत्तिः
॥ ९८ ॥
'अनुपरिवर्त्तन्ते' परिभ्रमन्ति 'संसार' भवमिति ॥ १ ॥ 'सव्वाई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनां प्रस्कन्दा - गमनानि सर्वगतिप्रस्कन्दास्तान् करिष्यन्ति अनन्तकान् - अनन्तान् अकृतपुण्याः - अविहिताश्रवनिरोधलक्षणपवित्रानुष्ठानाः ये च न शृण्वन्ति धर्म- श्रुतरूपं श्रुत्वा च ये प्रमाद्यन्ति-लथयन्ति श्रुतार्थ-संवरात्मकं नानुतिष्ठन्तीत्यर्थः ॥ २ ॥ 'अणुसिद्धि' गाहा अनुशिष्टमपि - गुरुणोपदिष्टमपि बहुविधं - बहुप्रकारं धर्म्ममिति सम्बन्धः, पाठान्तरेण अनुशिष्टाः- अनुशासिताः बहुविधं यथा भवति मिध्यादृष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्र बद्धं प्रदेशेषु संश्लेषितं निकाचितं दृढतरं बद्धं उपशमनादिकरणानामविषयीकृतमिति भावः शृण्वन्ति केवलमनुवृत्त्यादिना धर्म-श्रुनरूपं न च न पुनः कुर्वन्ति - अनुतिष्ठन्तीति ॥ ३ ॥ 'किं सक्का' गाहा, किं शक्यं कर्त्तुं ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत् - यस्मान्नेच्छथ - नेप्सथ औषधं मुधा - प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं, पातुं आपातुं, किंरूपमौषधमित्याह - जिनवचनं गुणमधुरं विरेचनं त्यागकारि सर्वदुःखानाम् ॥ ४ ॥ पञ्चैव प्राणातिपाताचाश्रवद्वाराणि उज्झित्वा त्यक्त्वा पञ्चैव प्राणातिपातविरमणादिसंवरान् रक्षित्वा - पालयित्वा भावेन - अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा - सकलकर्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां - सर्वोत्तम यान्ति- गच्छन्ति ॥ ५ ॥ इति प्रश्नव्याकरणे पञ्चमाध्ययनविवरणं समाप्तम् ॥ ५ ॥ तत्समाप्तौ चाश्रवाध्ययनानां विवरणं समाप्तम् ॥ ५ ॥
-30
Jain Education International
For Personal & Private Use Only
५ अधर्मद्वारे परिग्रह
कारकाः
परिग्रह
फलं च
सू० १९२०
11 86 11
www.jainelibrary.org