________________
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
RECECARESORLSASARAMERRORESCA
परद्रव्याभिधानं वा, प्रथमान्तत्वं च प्राकृतत्वात्, तथा 'सपरदारगमणंसेवणाए आयासविसूरणं'ति खदा- रगमने आयासं-शरीरमनोव्यायाम कुर्वन्तीति प्रकृतं, परदारसेवनायां च विसरणं-अप्राप्तौ मनःखेदं परस्य वा मनःपीडां कुर्वन्तीति, 'कलह भण्डनवैराणि च तत्र कलहो-वाचिकः भण्डनं-कायिक वैरं-अनुशयानुबन्धः, 'अपमानविमाननाः' तत्रापमाननानि-विनयभ्रंशाः विमानना:-कदर्थनाः, किंभूताः सन्तः कुर्वन्तीत्याह-'इच्छमहिच्छपिवाससययतिसिय'त्ति इच्छा-अभिलाषमात्रं महेच्छा-महाभिलाषश्चक्रवादीनामिव ते एव पिपासा-पानेच्छा तया सततं-संततं तृषिता येते तथा, तथा 'तण्हगेहिलोभघत्था' तृष्णाद्रव्याव्ययेच्छा गृद्धिः-अप्राप्ताकाङ्क्षा लोभा-चित्तविमोहनं तैर्ग्रस्ता-अभिव्याता येते तथा 'अत्तणा अणिगहियत्ति आत्मना अनिगृहीता अनिगृहीतात्मान इत्यर्थः कुर्वन्ति क्रोधमानमायालोभानिति कण्ठ्यं, अकीर्तनीयान-निन्दितान्, तथा परिग्रह एव च भवन्ति नियमाच्छल्यानि-मायादीनि त्रीणि दण्डाश्च-दुष्पणिहितमनोवाकायलक्षणाः गौरवाणि च-ऋद्धिरससातगौरवरूपाणि कषायाः संज्ञाश्च प्रतीताः, 'कामगुणअण्हगा यत्ति कामगुणाः-शब्दादयः पञ्च त एव आश्रवाः-आश्रवद्वाराणि च ते च 'इंदियलेसाओ'त्ति इन्द्रियाणि असंवृतानि लेश्याश्चाप्रशस्ता भवन्तीत्यर्थः, तथा 'सयणसंपओगत्ति खजनसंप्रयोगान् इच्छन्तीति सम्बन्धः, सचित्ताचित्तमिश्रकाणि द्रव्याणि अनन्तकानि इच्छन्ति परिग्रहीतुं, तथा सदेवमनुजासुरलोके लोभात्परिग्रहो लोभपरिग्रहो नतु धर्मार्थपरिग्रहो जिनवरैर्भणितः यद्त नास्ति ईदृशः परिग्रहाद्न्यः पाश
अधर्म
द्वारे परिग्रहकारकाः परिग्रह
फलं च | सू० १९
२०
॥९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org