________________
प्राप्यं चित्रादि कलाश्च-द्विसप्ततिः सुनिपुणा लेखादिकाः शकुनरुतावसानाः-शकुनरुतपर्यवसानाः गणितप्रधाना इति व्यक्तं, तथा चतुःषष्टिं च महिलागुणान्, आलिङ्गनादीनामष्टानां क्रियाविशेषाणां वात्स्यायनाभिहितानां प्रत्येकमष्टभेदत्वाच्चतुःषष्टिमहिलागुणा भवन्तीति, गीतनृत्यादयो वा स्त्रीजनोचिता वात्स्यायनाभिहिताश्चतुःषष्टिरेवेति, तांश्च किंविधान ?-रतिजननानिति प्रतीतं, तथा 'सिप्पसेवं ति शिल्पेन सेवा-वृत्त्यर्थिना राजादीनामवलगनं शिल्पसेवा तां शिक्षते इति सम्बन्धः, तथा 'असिमसिकिसिवाणिज्जति 'असित्ति खड्डाभ्यासं 'मसि'त्ति मषीकृत्यमक्षरलिपिविज्ञानं कृषि-क्षेत्रकर्षणकर्म वाणिज्य-वणिग्व्यवहारं तथा व्यवहारं-विवादच्छेदनं 'अत्थसत्थईसत्थच्छरुप्पगर्य'ति अर्थशास्त्रं-अर्थोपायप्रतिपादनं शास्त्रं राजनीत्यादि 'ईसत्थंति इषशास्त्रं धनुर्वेदं त्सरुप्रगतं-क्षरिकादिमुष्टिग्रहणोपायजातं विविधांश्च योगयोजनानबहुप्रकारांश्च वशीकरणादियोगान् परिग्रहाय शिक्षत इति प्रतीतं, तथा अन्येषु एवमादिकेषु-एवंप्रकारेषु बहुषु कारणशतेषु-परिग्रहोपादानहेतुशतेषु अधिकरणभूतेषु प्रवर्त्तमाना इति गम्यं, यावजीवं-आजन्म 'नडिजए'त्ति बहुवचनार्थत्वादेकवचनस्य नट्यन्ते-विनट्यन्ते, तथा सञ्चिन्वन्ति अबुद्धयो मन्दबुद्धयो वा दुष्टबुद्धियुक्ताः परिग्रहमिति प्रस्तुतं, तथा परिग्रहस्यैव चार्थाय कुर्वन्ति प्राणानां-जीवानां वधकरणं-हननक्रिया, तथा 'अलीकनिकृतिसातिसम्प्रयोगान्' तत्रालीक-मृषावादः निकृति:-अत्यन्तादरकरणेन परवञ्चनं सातिसम्प्रयोगो-विगुणद्रव्यस्य द्रव्यान्तरमीलनेन गुणोत्कर्षभ्रमोत्पादनं 'परदव्वाभिज्झत्ति परधनलोभं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org