SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पर्वतेष कुण्डले-जम्बूद्वीपादेकादशकुण्डलाभिधानद्वीपान्तर्वतिनि कुण्डलाकारपर्वते रुचकवरे-जम्बूद्वीपात्रयोदशरुचकवराभिधानद्वीपान्तर्वतिनि मण्डलाकारपर्वते तथा मानुषोत्तरे-मनुष्यक्षेत्रावारके मण्डलाकारप-16 वते कालोदधौ-द्वितीयसमुद्रे 'लवण'त्ति लवणसमुद्रे 'सलिल'त्ति सलिलासु गङ्गादिमहानदीषु इदपतिषु-नदप्रधानेषु पद्ममहापद्मादिषु महादेषु रतिकरेषु-नन्दीश्वराभिभनाष्टमद्वीपचक्रवालविदिक्चतुष्टयव्यवस्थितेषु चतुर्यु झल्लरीसंस्थितेषु पर्वतेषु अञ्जनकेषु-नन्दीश्वरचक्रवालमध्यवर्त्तिषु पर्वतेषु दधिमुखेषु-अञ्जनकचतुष्टयपार्श्ववर्निपुष्करिणीषोडशमध्यभागवतिषु षोडशखेव पर्वतेषु अवपाता:-येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति उत्पाताश्च-येभ्यो भवनपतय उत्पत्य मनुष्यक्षेत्रं समागच्छन्ति ते चानेके तिगिञ्छिकूटादयस्तेषु काश्चनेषु-उत्तरकुरुमध्ये देवकुरुमध्ये च प्रत्येक पश्चानां महादानां प्रत्येकमुभयोः पार्श्वयोः दशसु दशसु सर्वाग्रेण द्विशतीपरिमाणेषु काश्चनमयपर्वतेषु 'चित्तविचित्त'त्ति निषधाभिधानवर्षधरप्रत्यासन्नयोः शीतोदाभिधानमहानगुभयतटवर्तिनोश्चित्रविचित्रकूटाभिधानयोः पर्वतयोः 'जमगवर'त्ति नीलवर्षधरप्रत्यासन्नयोः शीताभिधानमहानाभयतटवर्तिनोर्यमकवराभिधानपर्वतयोः शिखरेषु-समुद्रममध्यवर्त्तिगोस्तूपादिपर्वतेषु कूटेषु च-नन्दनवनकूटादिषु वस्तुं शीलं येषां ते वर्षधरादिवासिनो देवा न ल भन्ते तृप्तिमिति प्रक्रमः, तथा-'वक्खारअकम्मभूमीसुत्ति वक्षस्काराः-चित्रकूटादयो विजयविभागकारिणः अकर्मभूमयः-हैमवतादिकभोगभूमयः तासु ये वर्तन्त इति गम्यते, तथा सुविभक्तभागा देशा-जनपदा यासु Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy