________________
प्रश्नव्याकर० श्रीअभयदेव. वृत्तिः
अधर्म
द्वारे परिग्रहकारकाः परिग्रहफलं च सू० १९.
॥९५॥
त्यादि कण्ठ्यं च, प्रकृतं निगमयन्नाह एवं च ते' इत्यादि कण्ठ्यं । यत्तन्ममायन्ते तदाह-'भवने'त्यादि 'सइंदग'त्ति एतदन्तं कण्ठ्यं च, नवरं भवनानि-भवनपतिगृहाणि गृहाण्येव वा वाहनानि-गजादीनि यानानि-शकटविशेषाः विमानानि-ज्योतिष्कवैमानिकदेवसम्बन्धिगृहाणि यानविमानानि च-पुष्पकपालकादीनि नानामणीनां सम्बन्धी पश्चवर्णो दिव्यश्च यः स नानामणिपञ्चवर्णदिव्यस्तं च भाजनविधि-भाजनजातं तथा नानाविधानि कामेन-खेच्छया रूपाणि येषां ते तथा विकुर्विता-वस्त्रादिभिः कृतविभूषा येऽप्सरोगणानां सङ्घातास्ते तथा, ततः कर्मधारयोऽतस्तान्नानाविधकामरूपविकुर्विताप्सरोगणसंघातान्, 'चेइयाणित्ति चैत्यवृक्षान् आरामादीनां विशेषः प्राग्वदवगन्तव्यः 'कित्तणाईति कीर्त्यते-संशब्द्यते यैः कारयिता तानि कीर्तनानि-देवकुलादीन्येव तानि च ममायन्ते इति प्रकृतं, ततश्च परिगृह्य परिग्रहं, किम्भूतमित्याह-विपुलद्रव्यसारं-प्रभूतवस्तुप्रधानं 'देवावि सइंदग'त्ति सइन्द्रका अपि देवाः, इन्द्रा देवाश्च किल महर्द्धयो वाञ्छितार्थप्राप्तिसमर्था दीर्घायुषश्च भवन्ति न च ते तथाविधा अपि सन्तस्तुष्ट्यादिकं लभन्ते कुतः पुनरितरे इति प्रतिपादनार्थ देवावि सईदगा इत्युक्तमिति, 'न तित्तिं न तुहि उवल भंति'त्ति तृप्ति-इच्छाविनिवृत्तिं तुष्टिंतोषमानन्दं न लभन्ते अपरापरविशेषप्राप्त्याकाङ्काबाधितत्वात्, किम्भूतास्ते इत्याह-अत्यन्तविपुललोभाभिभूता संज्ञा-संज्ञानं येषां ते तथा, वर्षधरेषु-हिमवदादिषु पर्वतेषु इषुकारेषु-धातकीखण्डपुष्करवरद्वीपार्द्धयोः पूर्वापरार्द्धकारिषु दक्षिणोत्तरायतेषु पर्वतविशेषेषु वृत्तपर्वतेषु-शब्दापातिविकटापात्यादिषु वर्तुलविजयाई
॥९५॥
Jain Educationindrabional
For Personal & Private Use Only
www.jainelibrary.org