________________
BHASKAR
चरनाकिनिकरसमक्षं अयोध्याभिधाननगरीनिवासिनो दशरथाभिधानस्य नरनायकस्य सुतेन रामदेवेन पद्मापरनाम्ना बलदेवेन लक्ष्मणाभिधानवासुदेवज्येष्ठभ्रात्रा स्वप्रभावेनोपशान्ताधिष्ठातृदेवतमारोपितगुणं विधाय प्राप्तसाधुवादेन महाबलेन परिणीता, ततो दशरथराजे प्रविव्रजिषौ रामदेवाय राज्यदानार्थमभ्युत्थिते भरताभिधाने च रामदेवस्य मात्रान्तरसम्बन्धिनि भ्रातरि प्रव्रजितुकामे भरतमात्रा पूर्वप्रतिपन्नवरयाचनोपायेन राज्ये भरताय दापिते बन्धुस्नेहाचाप्रतिपद्यमाने राज्यं भरतपितृवचनसत्यतार्थ भरतस्य राज्यप्रतिपत्त्यर्थ वनवासमुपाश्रितेन सलक्ष्मणेन रामेण सह वनवासमधिष्ठिता, ततश्च लक्ष्मणेन कौतुकेन तत्र दण्ड-3 कारण्ये सञ्चरता आकाशस्थं खड्गरत्नमादाय कौतुकेनेव वंशजालिच्छेदे कृते छिन्ने च तन्मध्यवर्तिनि विद्यासाधनपरायणे रावणभागिनेये खरदूषणचन्द्रनखासुते संबुक्काभिधाने विद्याधरकुमारे दृष्ट्वा च तं पश्चात्ता-1 पमुपगतेन लक्ष्मणेनागत्य भ्रातुर्निवेदितेऽस्मिन् व्यतिकरे एतयतिकरदर्शनकुपितायां चन्द्रनखायां पुना रामलक्ष्मणयोर्दर्शनात् सनातकामायां कृतकन्यारूपायां तत्प्रार्थनापरायां ताभ्यामनिष्टायां च पुत्रमारणादिव्यतिकरे च तया शोकरोषाभ्यां खरदूषणस्य निवेदिते तेन च वैरनिर्यातनोद्यतेन सह लक्ष्मणे योद्धमा-1 रब्धे ज्ञातभागिनेयमरणादिव्यतिकरण लङ्कानगरीत आकाशेन गच्छता रावणेन दृष्टा दृष्ट्रा च तां तेन कुसुमशायकशरप्रसरविधुरितान्तःकरणेनागणितकुलमालिन्येन अपहसितविवेकरत्नेन विमुक्तधर्मसंज्ञेन अनाकलिता-13 नर्थपरम्परेण विमुक्तपरलोकचिन्तेन जातशीतापहारबुद्धिना विद्यानुभावोपलब्धरामलक्ष्मणस्वरूपेण विज्ञात
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org