SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ज्ञानस्य कामस्य वा भृता मोहभृताः शस्त्रैःघ्नन्ति 'एक्कमेकं ति परस्परेण 'विसयविसत्ति सप्तम्याः षष्ठयर्थहावाद्विषयविषस्य 'उईरएसुत्ति उदीरकेषु-प्रवर्तकेषु अपरे-केचन 'परदारेहिन्ति परदारेषु प्रवृत्ता इति गम्यते 'हम्मत'त्ति हन्यन्ते परैः 'विसुणिय'त्ति विशेषेण श्रुताः-विज्ञाताः सन्तो धननाशं खजनविप्रणाशं च 'पाउणंति' प्राप्नुवन्ति, राज्ञः सकाशादिति गम्यते, 'परस्स दाराओ जे अविरय'त्ति परस्य दारेभ्यो येडविरताः, तथा मैथुनसंज्ञासम्प्रगृद्धाश्च मोहभृताः अश्वा हस्तिनो गावश्च महिषा मृगाश्च मारयन्ति 'एकमेकति परस्परं तथा मनुजगणाः वानराश्च पक्षिणश्च विरुध्यन्ते-विरुद्धा भवन्ति, एतदेवाह-मित्राणि क्षिप्रं भवन्ति शत्रवः, आह च-"सन्तापफलयुक्तस्य, नृणां प्रेमवतामपि । बद्धमूलस्य मूलं हि, महद्वैरतरोः स्त्रियः ॥१॥” समयान्-सिद्धान्तार्थान् धर्मान-समाचारान् गणांश्च-एकसमाचारजनसमूहान् भिन्दन्तिव्यभिचरन्ति परदारिणः-परकलत्रासक्ताः, उक्तं च-"धर्म शीलं कुलाचार, शौर्य स्नेहं च मानवाः । तावदेव ह्यपेक्षन्ते, यावन्न स्त्रीवशो भवेत् ॥१॥" धर्मगुणरताश्च ब्रह्मचारिणः क्षणेन-मुहूर्तेनैव 'उलोहए'त्ति अपवर्त्तन्ते चरित्रात्-संयमात् मैथुनसंज्ञासम्प्रगृद्धा इति वर्तते, आह च-"श्लथसद्भावनाधर्मा, स्त्रीविलासशिलीमुखैः । मुनिर्योद्धो हतोऽधस्तानिपतेत्शीलकुञ्जरात् ॥१॥” 'जसमंत'त्ति यशखिनः सुव्रताश्च प्रामुवन्त्यकत्ति, आह च-"अकीर्त्तिकारणं योषित्, योषिद्वैरस्य कारणम् । संसारकारणं योषित्, योषितं वर्जयेत् ततः॥१॥" कचिदयशाकीर्तिमिति पाठः, तत्र सर्वदिग्गामि यशः एकदिग्गामिनी कीर्तिरिति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy