SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ RA+RARKARRACKERRORAR तथा सा च रविकिरणैस्तरुणैर्बोधितं आकोशायमानं-विमुकुलीभवत् यत्पनं तद्वत् गम्भीरा विकटा च नाभिर्यासां तास्तथा, अनुद्भटौ-अनुल्बणौ प्रशस्तौ-सुजातौ पीनी च-उपचितौ कुक्षी यासां तास्तथा, सन्नतपार्धादिविशेषणानि पूर्ववत् अकरंडका-अनुपलक्ष्यपृष्ठास्थिका कनकरुचकवत्-सुवर्णरुचिवनिर्मला सुजाता निरुपहता च गात्रयष्टिासां तास्तथा, काञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा तौ समौ-तुल्यौ संहितौ-संहतौ लष्टचुचुकामेलको-शोभनस्तनमुखशेखरौ यमलौ-समश्रेणीको 'युगल'त्ति युगलरूपी वर्तितौवृत्ती पयोधरौ-स्तनौ यासां तास्तथा, भुजङ्गवत्-नागवदानुपूर्येण-क्रमेण तनूकौ-श्लक्षणी गोपुच्छवद्वृत्ती समौ-तुल्यौ संहितौ-मध्यकायापेक्षया विरलौ नमितौ-नम्रौ आदेयौ-सुभगौ लडहौ-ललितौ वाहू-भुजौ यासां तास्तथा, ताम्रनखाः मांसलाग्रहस्ताः कोमलपीवरवराङ्गुलीकाः स्निग्धपाणिरेखाः शशिसूरशङ्खचक्रवरखस्तिकविभक्तमुविरचितपाणिरेखाश्चेति कण्ठ्यानि, पीनोन्नते कक्षे-भुजमूले बस्तिप्रदेशश्च-गुह्यदेशो यासां परिपूर्णः गलकपोलश्च यासांतास्तथा, चतुरङ्गुलसुप्रमाणा कम्बुवरसदृशी-वरशङ्खतुल्या ग्रीवा यासां तास्तथा, मांसलसंस्थितप्रशस्तहनुकाः, हनु-चिबुकं, शेषं कण्ठ्यं, दाडिमपुष्पप्रकाशो रक्त इत्यर्थः, पीवरः-उपचितः प्रलम्बः-ईषल्लम्बमानः कुञ्चितः-आकुश्चितो वर:-प्रधानोऽधर:-अधस्तनो दशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठ्यं, दधिवत् दुकरजोवत् कुन्दवचंद्रवत् वासन्तिका-वनस्पतिविशेषस्तस्या मुकुलं-कोरकं तद्वच्च अच्छिद्रा-अविरला निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्त पद्मपत्रवच सुकुमाले Jain Educatio n al For Personal & Private Use Only wom.jainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy