________________
प्रश्नव्याकर०श्रीअभयदेव० वृत्तिः
४ अधर्म| द्वारे माण्डलिकदेवकुरूत्तरवर्णनं सू०१५
॥८३॥
| रम्यं जवायुगलं यासा तास्तथा, सुनिर्मितौ-सुन्यस्तो सुनिगूढी-अनुपलक्ष्यौ जानुनोः-अष्ठीवतोसिलौ- मांसोपचितौ प्रशस्ती-माङ्गल्यौ सुबद्धौ लायुभिः सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भात्-मोचाकाण्डात् सकाशाद अतिरेकेण-अतिशयेन संस्थितं-संस्थानं ययोस्ते कदलीस्तम्भातिरेकसंस्थिते निव्रणेव्रणरहिते सुकुमालमृदुकोमले-अत्यर्थकोमले अविरले-परस्परासन्ने समे-प्रमाणतस्तुल्ये सहिते-युक्ते लक्षणैरिति गम्यते सहिके वा-क्षमे सुजाते-सुनिष्पन्ने वृत्ते-वर्नुले पीवरे-सोपचये निरन्तरे-परस्परं निर्विशेषे ऊरू-उपरितनजङ्के यासां तास्तथा, अष्टापदस्य-द्यूतविशेषस्य वीचय इव वीचयः-तरङ्गाकारा रेखास्तत्प्रधानं पृष्ठमिव पृष्ठं-फलकं अष्टापदवीचिपृष्ठं तद्वत्संस्थिता-तत्संस्थाना प्रशस्ता-विस्तीर्णा पृथुला-अतिविस्तीर्णा श्रोणि:-कटी यासां तास्तथा, वदनायामस्य-मुखदीर्घत्वस्य यत्प्रमाणं ततो द्विगुणितं-द्विगुणं चतुर्विशत्यङ्गुलमित्यर्थः विशालं-विस्तीर्ण मांसलसुबर्द्ध-उपचिताश्लथं जघनवरं-प्रधानकटीपूर्वभागं धारयन्ति यास्तास्तथा, वज्रवत् विराजिताःक्षाममध्यत्वेन वज्रविराजिताः प्रशस्तलक्षणा निरुदराश्च-तुच्छोदरायास्तास्तथा, तिमृभिर्वलिभिर्वलितः-सञ्जातवलिकस्तनु:-कृशः नमितो-नतो मध्यो-मध्यभागो यासा तास्तथा, ऋजुकानां-अवक्राणां समानां-तुल्यानां संहितानां-अविरलानां जात्यानां-खभावजानां तनूना-सूक्ष्माणां कृष्णानां-कालानां लिग्धानां-कान्तानां आदेयानां-रम्याणां लडहानां-ललितानां सुकुमालमृदूनां-अतिमृदूनां सुविभक्तानां -विविक्तानां रोम्णां राजि:-पद्धतिः यासां तास्तथा, गङ्गावर्तक इव प्रदक्षिणावर्त्ता तरङ्गवद्भङ्गा यस्यां सा
RECRACKERA
॥८३ ॥
Jain Education
For Personal & Private Use Only
anelibrary.org