________________
६ इति भावः, हुतवहेन-अमिना निर्धमन-निर्दग्धं धौत-प्रक्षालितमलं यत्तपनीयं-सुवर्णविशेषः तद्वद्रक्ततलं
लोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा, गरुडस्येव-सुपर्णस्येव आयता-दीर्घा ऋज्वीसरला तुङ्गा-उन्नता नासा-घोणो येषां ते तथा, अवदालितं-सञ्जातावदलनं विकसितं यत्पुण्डरीकं-शतपनं तद्वन्नयने-लोचने येषां ते तथा 'कोकासियत्ति विकसिते प्रायः प्रमुदितत्वात्तेषां धवले-सिते पत्रले-पक्ष्मवती अक्षिणी-लोचने येषां ते तथा, आनामितं-ईषन्नामितं यच्चापं-धनुस्तद्रुचिरे-शोभने कृष्णाभ्रराजिसंस्थिते-कालमेघलेखासंस्थाने सङ्गते-उचिते आयते-दीर्घ सुजाते-सुनिष्पन्ने भ्रुवौ येषां ते तथा, आलीनौ नतु टप्परौ प्रमाणयुक्तौ-उपपन्नप्रमाणौ श्रवणौ-कर्णी येषां ते तथा अत एव सुश्रवणाः सुष्टु वा श्रवणं-शब्दोपलम्भो येषांते तथा, पीनी-मांसलौ कपोललक्षणौ देशभागौ-बदनस्यावयवी येषांते तथा,अचिरोद्गतस्येवात एष बालचन्द्रस्य-अभिनवशशिनः संस्थितं-संस्थानं यस्य तत्तथा तदेवंविधं महद-विस्तीर्ण 'निडाल'त्ति ललाटंभालं येषां ते तथा, उडुपतिरिव-चन्द्र इव प्रतिपूर्ण सौम्यं च वदनं येषां ते तथा, तथा छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोहमुद्गरस्तद्वन्निचितं निबिडं घनं वा-अतिशयेन निचितं घननिचितं सुबई लायुभिः लक्षणोन्नत-महालक्षणं कूटागारनिर्भ-सशिखरभवनतुल्यं पिण्डिकेव व लत्वेन पिण्डिकायमानं अग्रशिरःशिरोऽग्रं येषां ते तथा, हुतवहेन निर्मातं धौतं तसं च यत्तपनीयं-रक्तवर्ण सुवर्ण तद्वद्रक्ता-लोहिता केसंतत्ति मध्यकेशा केशभूमिः-मस्तकत्वम् येषां ते तथा, शाल्मली-वृक्षविशेषस्तस्य यत्पौण्डं-फलं घन
Jain Educational
For Personal & Private Use Only
Vianelibrary.org