SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ ८२ ॥ Jain Educatio निचितं - अत्यर्थं निबिड छोटितं च-घट्टितं तद्वन्मृदवः - सुकुमाराः विशदाः - विस्पष्टाः प्रशस्ता - मङ्गल्याः सूक्ष्माः - लक्ष्णाः लक्षणाः- लक्षणवन्तः सुगन्धयः- सद्गन्धाः सुन्दराः - शोभनाः भुजमोचको - रत्नविशेषस्तद्वत् | भृङ्गः- कीटविशेषस्तद्वन्नीलो - रत्नविशेषः स इव कज्जलमिव प्रहृष्टभ्रमरगणः प्रमुदितमधुकरनिकरः स इव च स्निग्धाः - कालकान्तयः निकुरुम्बाः- समूहरूपाः निचिता - अविकीर्णाः कुञ्चिताः - वक्राः प्रदक्षिणाव र्त्ताश्च-अवामवृत्तयो मूर्धनि-शिरसि शिरसिजा : - केशा येषां ते तथा, सुजातसुविभक्तसङ्गताङ्गा इति कण्ठ्यं, लक्षणव्यञ्जनगुणोपपेता इति प्राग्वत्, प्रशस्तद्वात्रिंशल्लक्षणधरा इति कण्ठ्यं, हंसस्येव स्वरः - शब्दः षड्जादिर्वा येषां ते तथा, एवमन्यान्यपि, नवरं ओघेन- अविच्छेदेनावित्रुटितत्वेन खरो येषां ते तथा, तथा सुष्ठु स्वरस्य - शब्दस्य निर्दोषो निर्ह्रादो येषां ते तथा, वाचनान्तरे सिंहघोषादिकानि विशेषणानि पठ्यन्ते, तत्र घण्टाशब्दानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, वज्रर्षभनाराचाभिधानं संहननं - अस्थिसश्चयरूपं येषां ते तथा, तत्र - "रिसहो उ होइ पट्टो वज्जं पुण कीलिया विद्याणाहि । उभओ मक्कडबन्धो नारायं तं वियाणाहि ॥ १ ॥ [ ऋषभस्तु भवति पट्टो वज्रं पुनः कीलिकां विजानीहि । उभयतो मर्कटबन्धो यस्तं ना| राचं विजानीहि ॥ १ ॥ ] समचतुरस्राभिधानेन संस्थानेन संस्थिता ये ते तथा, तत्र समचतुरस्रत्वमूर्ध्वका| याधः काययोः समग्रखस्वलक्षणतया तुल्यत्वमिति, छाययोद्योतिताङ्गोपाङ्गा इति कण्ठ्यं, 'पसत्थच्छवि'त्ति प्रशस्तत्वचः निरातङ्काः - नीरोगाः कङ्कस्येव-पक्षिविशेषस्येव ग्रहणी - गुदाशयो नीरोगवर्चस्कतया येषां ते Mional For Personal & Private Use Only ४ अधर्म द्वारे माण्डल - कदेवकुरु त्तरवर्णनं सू० १५ ॥ ८२ ॥ Mainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy