________________
४ अधर्म
प्रश्नव्याकर० श्रीअभयदेव.
| द्वारे माण्डलिकदेवकुरूत्तरवर्णन
वृत्ति
सू० १५
1-अरुणाः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिरा-दीसाः लिग्धा-अरूक्षा नखा-हस्तनखरा येषां ते तथा, लिग्धपाणिरेखा इति कण्ठ्यं, चन्द्र इव पाणिरेखा येषां ते तथा, एवमन्यान्यपि चत्वारि पदानि नवरं दिक्प्रधानः स्वस्तिको दिकखस्तिको दक्षिणावर्त इत्यर्थः, रविशशिशङ्खवरचक्रदिकखस्तिकरूपा विभक्ता-विविक्ताः सुविरचिता:-सुकृताः पाणिषु रेखा येषां ते तथा, वरमहिषवराहशार्दूलऋषभनागवरप्रतिपूर्णविपुलस्कन्धा इति कण्ठ्यं, नवरं वराहः-शूकरः शार्दूल:-व्याघ्र ऋषभो-वृषभो नागवरो-गजवरः, चत्वार्यमुलानि सुष्टु प्रमाणं यस्याः कम्बुवरेण च-प्रधानशङ्खन सदृशी उन्नतत्त्ववलियोगाभ्यां समाना ग्रीवा-कण्ठो येषां ते तथा, अवस्थितानि-न हीयमानानि वर्द्धमानानि च सुविभक्तानि-विविक्तानि चित्राणि च-शोभया अद्भुतभूतानि इमणि-कूर्चकेशा येषां ते तथा, उपचितं-मांसलं प्रशस्तं शार्दूलस्येव विपुलं च हनु-चिबुकं येषां ते तथा, 'ओयवियंति परिकर्मितं यच्छिलाप्रवालं-विद्वमं बिम्बफलं च-गोल्हाफलं तत्सन्निभः-तत्सदृशो रक्तत्वनाधरोष्ठः-अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिसकलं-चन्द्रखण्डं तद्वद विमलं शङ्खव गोक्षीरफेनवत् 'कुंद'त्ति कुन्दपुष्पवत् दकरजोवत् मृणालिकावञ्च-पद्मिनीमूलवद्धवला दन्तश्रेणीदशनपतिर्येषां ते तथा, अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजीरहितदन्ताः अविरलदन्ताःघनदन्ताः सुलिग्धदन्ताः-अरूक्षदन्ताः सुजातदन्ता:-सुनिष्पन्नदन्ताः, एको दन्तो यस्यां सा एकदन्ता सा श्रेणी येषां ते तथा, दन्तानामतिघनत्वादेकदन्तेव दन्तश्रेणिस्तेषामिति भावः, अनेकदन्ता द्वात्रिंशद्दन्ता
॥८१॥
dain Education Internal
For Personal & Private Use Only
www.jainelibrary.org