________________
हंसवधूनां विशदद्वेषताभणनेन कनकगिरिशिखर संश्रितत्व भणने नोत्पातनिपातभणनेन च मणिकनकदण्डाश्रितधवल चञ्चच्चामरोपमानतोक्तेति, सललितैः - लालित्ययुक्तः नरपतिश्रीसमुदयप्रकाशनकरैः, राजलक्ष्मीसमुदायो हि तैर्लक्ष्यते, वरपत्तनोद्गतैः, पत्तनविशेषनिर्मितं हि शिल्पिविशेषात् प्रधानं भवति, अथवा वरपत्तनादू-वराच्छादनकोशकादुद्गतानि-निर्गतानि यानि तानि तथा तैः समृद्धराजकुलसेवितैः असमृद्धराजकुलस्य तु तद्योग्यतापि न भवति, कालागुरुः - कृष्णागुरुः प्रवरकुन्द्रुकं - प्रधानचीडा तुरुक्कं-सिल्हकं एतल्लक्षणो यो धूपस्तद्वशेन यो वासो - वासना तेन विशदः-स्पष्टो गन्धो-गुणविशेषः उद्भूत उद्भूतोऽभिरामो- रम्यो येषां तानि तथा तैः, 'चिल्लिकाहिं'ति लीनैः दीप्यमानैर्वा 'उभयोपासंपि'त्ति उभयोरपि पार्श्वयोः 'चामराहिं उक्खष्पमाणाहिं ति प्रकीर्णकैरुत्क्षिप्यमाणैरित्यर्थः, कलिता इति प्रकृतं, तथा सुखशीलवातेन चामराणामेव वीजितानि अङ्गानि येषां ते तथा, अजिता अजितरथा इति प्रतीतं, हलं मुशलं च प्रतीते, कणकाञ्च वाणाः पाणी हस्ते येषां ते तथा, इदं च बलदेवापेक्षया विशेषणं, शङ्खः पाञ्चजन्याभिधानः चक्रं सुदर्शनं गदा च - कौमोदकी नामा शक्तिश्च - त्रिशूलविशेषः नन्दकश्च - नन्दकाभिधानः खड्गः एतान् धारयन्ति ये ते तथा, इदं च विशेषणं वासुदेवाश्रयं, प्रवरोज्वलो-वरशुक्लः सुकृतः - सुरचितो विमलो-निमल: कौस्तुभो - वक्षोमणिस्तिरीटं च-मुकुटं धारयन्ति ये ते तथा, कुण्डलोद्योतितानना इति व्यक्तं, पुण्डकं-सितपद्मं तद्वन्नयने येषां ते तथा, एकावली कण्ठे रचिता वक्षसि-हृदये येषां ते तथा, श्रीवत्सः प्रतीतः
Jain Educational
For Personal & Private Use Only
ainelibrary.org