________________
प्रश्नव्याक-श्वातिशयवद्भिश्चामरैः कलिता इति सम्बन्धः, किम्भूतैः?-प्रवरगिरेयत्कुहरं तत्र यद्विहरणं-विचरणं गवा-1 र० श्रीअ- मिति गम्यते तत्र समुद्धतानि-उत्क्षिप्तानि कण्टकशाखिलगनभयात् यानि तानि तथा तैश्चामरैरिति प्रकभयदेव० तं, सूत्रे तु चामरशब्दस्य स्त्रीलिङ्गत्वेन विवक्षितत्वात् स्त्रीलिङ्गनिर्देशः कृत इति, निरुपहतं-नीरोगं यच्चमरीवृत्तिः णां-गोविशेषाणां पश्चिमशरीरं-देहपश्चाद्भागः तत्र सञातानि यानि तानि तथा तैः 'अमइल'त्ति अमलिनं
पाठान्तरेणाऽऽमलितं-आमृदितं यत् सितकमलं-पुण्डरीकं विमुकुलं च-विकसितं उज्ज्वलितं च-दीप्तं यद्रजत॥७६ ॥
गिरिशिखरं विमलाश्च ये शशिनः किरणास्तत्सदृशानि वर्णतो यानि तानि तथा, कलधौतवद्-रजतवनिर्मलानि यानि तानि तथा, ततः कर्मधारयस्ततस्तैः, पवनाहतो-वायुताडितः सन् चपलं यथा भवत्येवं चलितः सललितं प्रवृत्त इव सललितप्रवृत्तः वीचिभिः प्रसृतक्षीरोदकप्रवरसागरस्य य उत्पूरो-जलप्लवः स तथा तद्वच्चञ्चलानि यानि तानि तथा तैः, चामराण्येव हंसवधूभिः उपमयन्नाह-मानसाभिधानस्य सरसः प्रसरे-विस्तारे परिचितः-अभ्यस्त आवासो-निवासो विशदश्व-धवलो वेषो-नेपथ्यमाकारो यासां तास्तथा ताभिः, कनकगिरिशिखरसंश्रिताभिरिति व्यक्तं, अवपातोत्पातयोः-अधोगमनोर्ध्वगमनयोः 'चवलजइण'त्ति चपलवस्त्वन्तरजयी शीघो वेगो यासां तास्तथा ताभिहसवधूभिरिव-हंसिकाभिरिव कलिता:-युक्ता वासुदेवबलदेवा इति प्रक्रमः, पुनरपि किम्भूतैः चामरैः?-नानामणयः-चन्द्रकान्ताद्याः कनकं च-पीतवर्ण सुवर्ण महान् अह:-अर्को यस्य तन्महार्ह तपनीयं-रक्तवर्ण सुवर्ण एतेषामुज्ज्वलविचित्रा दण्डा येषां तानि तथा तैः, इह च
| मैथुनसे
विनः बलदेववासुदेववर्णनं सू० १५
॥६॥
JainEducation international
For Personal & Private Use Only
w.jainelibrary.org