SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ * * *** श्रित्याधीतं, स हि किल त्रिपृष्ठाभिधानजनपदोपद्रवकारिणं विषमगिरिगुहावासिनं महाकेसरिणं उत्तराध. रोष्ठग्रहणेन विदारयामासेति, इदं च विशेषणं द्वितीयव्याख्यायामेव घटते, प्रथमव्याख्यानपक्षे पुनरेवं पाठः, | केसिमुहविप्फाडग'त्ति तत्र केश्यभिधानः कंसकसत्को दुष्टोऽश्वस्तन्मुखं च कृष्णः कूप्परप्रक्षेपेण विदारितवानिति, दृप्तनागदर्पमथना इदं च कृष्णमाश्रित्याधीतं, स हि किल यमुनाइदवासिनं घोरविषं महानागं पद्मग्रहणार्थ हृदेवतीर्य निर्मथितवान्, यमलार्जुनभञ्जका इदमपि तमेवाश्रित्याधीतं, स हि पितृवैरिणौ विद्याधरौ रथारूढस्य गच्छतो मारणार्थ पथि विकुर्वितयमलार्जुनवृक्षरूपी सरथस्य मध्येन गच्छतश्चूर्णनप्रवृत्ती हतवान् , महाशकुनिपूतनारिपधः इदमपि तथैव कृष्णपितृवैरिण्योर्महाशकुनिपूतनाभिधानयोर्विद्याधरयोषितोः विकुर्वितगन्त्रीरूपयोः गन्त्रीसमारोपितबालावस्थकृष्णयोः कृष्णपक्षपातिदेवतया विनिपातितत्वात् , कंसमुकुटमोटका इदमपि तथैव, यतः कृष्णेन मल्लयुद्धे विनिपातितचाणूरमल्लेन कंसाभिधानो मथुराराजोऽमर्षादुद्गीर्ण-12 खड्गो युयुत्सुर्मुकुटदेशे गृहीत्वा सिंहासनात् भुवि समाकृष्य विनिपातितः, तथा जरासन्धमानमथनाः इदमपि तथैव, यतः कृष्णो राजगृहनगरनायकं जरासन्धाभिधानं नवमप्रतिवासुदेवं कंसमारणप्रकुपितं महासङ्ग्रामप्र-१ वृत्तं विनिपातितवान् , तथा 'तेहि यत्ति तैश्चातिशयवद्भिरातपत्रैर्विराजमाना इति सम्बन्धः, अविरलानि घनशलाकावत्त्वेन समानि तुल्यशलाकतया सहितानि-संहितानि अनिम्नानि उन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभाणि च शशधरबिम्बवत् प्रभान्ति-वृत्ततया शोभन्ते यानि तानि तथा तैः, सूरमरीचयः-आदित्यकि * * * Jain Edu For Personal & Private Use Only ** inelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy