________________
प्रश्नव्याक २०श्रीभवदेव० वृत्तिः
****
अधर्मद्वारे
चौरिका
फलं सू०१२
मानाः, उक्तं च-"यद्यदारभते कर्म, नरो दुष्कर्मसञ्चयः । तत्तद्विफलतां याति, यथा बीज महोषरे ॥१॥" तद्दिवसं-प्रतिदिनमुद्युक्तैः-उद्यतैः सद्भिः कर्मणा-व्यापारेण कृतेन यो दुःखेन-कष्टेन संस्थापितो-मीलितः सिक्थानां पिण्डस्तस्यापि सश्चये पराः-प्रधाना येते तथा, क्षीणद्रव्यसारा इति व्यक्तं, नित्यं-सदा अध्रुषाअस्थिरा धनानां-गणिमादीनां धान्यानां-शाल्यादीनां कोशा-आश्रया येषां स्थिरत्वेऽपि तत्परिभोगेन वर्जिताश्च येते तथा, रहितं-त्यक्तं कामयोः-शब्दरूपयोः भोगानां च-गन्धरसस्पर्शानां परिभोगे-आसेवने यत्तत्सर्वसौख्यं-आनन्दो यैस्ते स तथा, परेषां यौ श्रिया भोगोपभोगौ तयोर्यन्निश्राणं-निश्रा तस्य मार्गणपरायणा-गवेषणपरा येते तथा, तत्र भोगोपभोगयोरयं विशेषः-'सइ भुजइत्ति भोगो सो पुण आहारपुप्फमाइओ। उवभोगो उ पुणो पुण उवभुजइ वत्थनिलयाइ ॥१॥ त्ति [सकृद्भुज्यते इति भोगः स पुनराहारपुष्पादिकः । उपभोगस्तु पुनः पुनरुपभुज्यते वस्त्रनिलयादि ॥१॥] वराका:-तपखिनः अकामिकया|अनिच्छया विनयन्ति-प्रेरयन्ति अतिवाहयन्तीत्यर्थः, किं तदित्याह-दुःख-असुखं, नैव सुखं नैव निवृतिखास्थ्यमुपलभन्ते-प्राप्नुवन्ति अत्यन्तविपुलदःखशतसम्प्रदीप्ताः,परस्य द्रव्येषु ये अविरता भवन्ति ते नैव सुखं लभते इति प्रस्तुतं । तदेवं यादृशं फलं ददातीत्यभिहितं, अधुनाऽध्ययनोपसंहारार्थमाह-'एसो सों' इत्यादि, सवे पूर्ववत् ॥ प्रश्नव्याकरणतृतीयाध्ययनविवरणं समाप्तमिति ॥३॥
कः । उपभोगस्तू पुनः नयन्तीत्यर्थः, किं तदित्याह द्रव्येषु ये अविरता भवान्तसो सो
*45453
॥
४॥
Jain Education Internal oral
For Personal & Private Use Only
www.jainelibrary.org