________________
SUBSCRIORRCRAA
न्दन्तः-जुगुप्समाना अप्पगन्ति-आत्मानं कृतान्तं च-दैवं तथा परिवदन्तो-निन्दन्तः, कानीत्याह-'इह य पुरेकडाई कम्माई पावगाईति इहैवमक्षरघटना-पुराकृतानि च-जन्मान्तरकृतानि कर्माणि इह-जन्मनि पापकानि-अशुभानि कचित्पापकारिण इति पाठः, विमनसो-दीनाः शोकेन दद्यमानाः परिभूता भवन्तीति सर्वत्र सम्बन्धनीयं, तथा सत्त्वपरिवर्जिताच 'छोभत्ति निस्सहायाः क्षोभणीया वा शिल्पं-चित्रादि कलाधनुर्वेदादिः समयशास्त्रं-जैनबौद्धादिसिद्धान्तशास्त्रं एभिः परिवर्जिता येते तथा, यथाजातपशुभूताःशिक्षारक्षणादिवर्जितबलीवादिसदृशाः निर्विज्ञानत्वादिसाधात् 'अचियत्त'त्ति अप्रतीत्युत्पादका नित्यं -सदा नीचानि-अधमजनोचितानि कर्माण्युपजीवन्ति-तैत्तिं कुर्वन्ति येते तथा, लोककुत्सनीया इति प्रतीतं, मोहाद ये मनोरथा-अभिलाषास्तेषां ये निरासा:-क्षेपास्तैर्बहुला ये ते तथा अथवा मोघमनोरथानिष्फलमनोरथा निराशबहुलाश्च-आशाभावप्रचुरा येते तथा, आशा-इच्छाविशेषः सैव पाशो-बन्धन तेन प्रतिबद्धाः-संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तथा, अर्थोपादानं-द्रव्यावर्जनं कामसौख्यं च प्रतीतं तत्र च लोकसारे-लोकप्रधाने भवन्ति-जायन्ते 'अफलवंतगा यत्ति अफलवन्तः अप्राप्तिका इखया, लोकसारता च तयोः प्रतीता, यथाहु:-“यस्यार्थास्तस्य मित्राणि, यस्यार्थास्तस्य बान्धवाः । यस्यार्थाः स पुमान लोके, यस्यार्थाः स च पण्डितः॥१॥” इति, "राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनाऽनङ्गसर्वस्व ॥१॥” मिति, किम्भूतां अपीत्याह-सुष्वपि च उद्यच्छन्तः-अत्यर्थमपि च प्रयत
Jain Education
alonal
For Personal & Private Use Only
Brainelibrary.org