________________
च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, हिंसाऽलीकादत्तादानमैथुनपरिग्रहलक्षणा ये आरम्भा -व्यापारास्तेषां यानि करणकारणानुमोदनानि तैरष्टविधमनिष्टं यत् कर्म पिण्डितं-सश्चितं तदेव गुरुभारस्ते
नाक्रान्ता येते तथा तैर्दुर्गाण्येव-व्यसनान्येव यो जलौघस्तेन दूरं-अत्यर्थ निबोल्यमानैः-निमज्यमानैः 'उम्मजग्गनिमग्ग'त्ति उन्मग्ननिमग्नैः-ऊर्द्धाधोजलगमनानि कुर्वाणैर्दुर्लभं तलं-प्रतिष्ठानं यस्य स तथा तं, शरीरमनो-||
मयानि दुःखानि उत्पिबन्त:-आसादयन्तःसातं च-सुखं असातपरितापनं च-दुःखजनितोपतापः एतन्मयंएतदात्मकं 'उबुद्धनिबुड्डय'ति उन्मग्ननिमग्नत्वं कुर्वन्तः, तत्र सातमुन्मग्नत्वमिव असातपरितापनं निमग्नत्वमिवेति, चतुरन्तं-चतुर्विभागं दिग्भेदगतिभेदाभ्यां महान्तं प्रतीतं कर्मधारयोऽत्र दृश्यः अनवदग्रं-अनन्तं रुद्रं-विस्तीर्ण संसारसागरमिति प्रतीतं, किम्भूतमित्याह-अस्थितानां-संयमाव्यवस्थितानां अविद्यमानमालम्बनं प्रतिष्ठानं च-त्राणकारणं यत्र स तथा तं, अप्रमेयं-असर्ववेदिनाऽपरिच्छेद्यं, चतुरशीतियोनिशतसहस्रगुपिलं, तत्र योनयो-जीवानामुत्पत्तिस्थानानि तेषां चासङ्ख्यातत्वेऽपि समवर्णगन्धरसस्पर्शानामेकत्वविवक्षणादुक्तसङ्ख्याया अविरोधित्वं द्रष्टव्यं, तत्र गाथे-"पुढवि ७दग ७ अगणि मारुय ७ एक्केके सत्त जोणिलक्खाओ।
वणपत्तेय १० अणंते १४ दस चोद्दस जोणिलक्खाओ॥ १ ॥ विगलिंदिएसु दो दो चउरो चउरो य नारलायसुरेसु । तिरिएसु हुंति चउरो चोद्दस लक्खा य मणुएसु॥२॥" अनालोकानां-अज्ञानानामन्धकारो यः
स तथा तं, अनन्तकालं-अपर्यवसितकालं यावत् नित्यं-सर्वदा उत्रस्ता-उद्तत्रासाः सुन्ना-इतिकर्तव्य
JainEducatio
n
al
For Personal & Private Use Only
mainelibrary.org