SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ तथा आर्यजनशलाभे भवन्ति-जायसहस्रसङ्ख्याः परिवत्तास्थाम दितादत्तग्राहिणः, अनन्तकालेन यदि नाम कथञ्चिन्मनुजभावं लभन्ते इति व्यक्तं, कथमित्याह-नकेषु-बहषु निरयगतौ यानि गमनानि तिरश्चां च ये भवास्तेषां ये शतसहस्रसङ्ख्याः परिवर्त्तास्ते तथा तेष्वतिक्रान्तेषु सत्खिति गम्यते, तत्रापि च-मनुजवलाभे भवन्ति-जायन्ते अनार्याः-शकयवनबर्बरादयः, किम्भूताः?नीचकुलसमुत्पन्नाः, तथा आर्यजनेऽपि-मगधादौ समुत्पन्ना इति शेषः लोकबाह्या-जनवर्जनीया भवन्तीति गम्यं, तिर्यग्भूताश्च पशुकल्पा इत्यर्थः, कथमित्याह-अकुशलाः-तत्त्वेषु अनिपुणाः कामभोगतृषिता इति व्यक्तं, 'जहिंति नरकादिपरिवृत्तौ तत् मनुजत्वं लभते यत्र निबध्नन्ति-चिन्वन्ति निरयवर्तिन्यां-नरकमार्गे भवप्रपञ्चकरणेन-जन्मप्राचुर्यकरणेन 'पणोल्लित्ति प्रणोदीनि तत्प्रवर्तकानि तेषां जीवानामिति हृदयं यानि तानि तथा, अत्र द्वितीयाबहुवचनलोपो द्रष्टव्यः, पुनरपि आवृत्त्या संसारो-भवो नेमत्ति-मूलं येषां तानि तथा दुःखानीति भावः तेषां यानि मूलानि तानि तथा, कर्माणीत्यर्थः, तानि निबध्नन्तीति प्रकृतं, इह च मूलाइंति वाच्ये मूल इत्युक्तं प्राकृतत्वेन लिङ्गव्यत्ययादिति, किम्भूतास्ते मनुजत्वे वर्तमाना भवन्तीत्याहधर्मश्रुतिविवर्जिताः धर्मशास्त्रविकला इत्यर्थः अनार्या:-आर्येतराः क्रूरा-जीवोपघातोपदेशकत्वात् क्षुद्रा तथा मिथ्यात्वप्रधाना-विपरीततत्त्वोपदेशका श्रुतिः-सिद्धान्तस्तां प्रपन्नाः-अभ्युपगता येते तथा ते च भवन्तीति, एकान्तदण्डरुचयः-सर्वथा हिंसनश्रद्धा इत्यर्थः वेष्टयन्ति कोशिकारकीट इवात्माननिति प्रतीतं अष्टकर्मलक्षणैस्तन्तुभिर्यदू घनं बन्धनं तत्तथा तेन, एवमनेन आत्मनः कर्मभिर्बन्धनलक्षणप्रकारेण नरकतिर्यङ्करामरेषु त्या संसारो-भा HOLESARKARI तानि तथा, विवर्जितायुक्त माकृतले प्र.व्या.११॥ Jain Education a l For Personal & Private Use Only hinelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy