SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ - - -- ३ अधर्म द्वारे चौरिका फलं सू० १२ प्रश्नव्याक- अविराधिता एव-अनपराद्धा एव वैरिका येते तथा तैर्यमपुरुषसन्निभैः प्रहता इति प्रकटं, ते अदत्तहारिणः र० श्रीअ- तत्र-चारकबन्धने मन्दपुण्या-निर्भाग्याः चडवेला-चपेटाः वर्धपहा-चर्मविशेषपट्टिका पाराइंति-लोहकुभयदेव. सीविशेषः छिवा-श्लक्ष्णकषः कषः-चर्मयष्टिका लता-कम्बा वरत्रा-चर्ममयी महारज्जुः वेत्रो-जलवंशः एभिर्ये वृत्तिः प्रहारास्तेषां यानि शतानि तैस्ताडितान्यङ्गोपाङ्गानि येषां ते तथा, कृपणा:-दुःस्था लम्बमानचर्माणि यानि व्रणानि-क्षतानि तेषु या वेदना-पीडा तया विमुखीकृतं-चौर्याद्विरचितं मनो येषां ते तथा, घनकुट्टेन॥ ५७॥ अयोघनताडनेन निवृत्तं घनकुहिम तेन निगडयुगलेन प्रतीतेन सङ्कोटिता:-सङ्कोचिताङ्गाः मोटिताश्च-भग्नाङ्गा येते तथा ते च क्रियन्ते-विधीयन्ते आज्ञप्तिकिङ्करैरिति प्रकृतं, किंभूताः?-निरुच्चाराः-निरुद्धपुरीषोत्सर्गाः अविद्यमानसश्चरणा नष्टवचनोचारणा वा एता अन्याश्च एवमादिका-एवंप्रकाराः वेदनाः पापा:-पापफलभूताः पापकारिणो वा प्राप्नुवन्त्यदान्तेन्द्रियाः 'वसत्ति वशेन-विषयपारतव्येण ऋताः-पीडिता वशाता बहुमोहमोहिताः परधने लुब्धा इति प्रतीतं, स्पर्शनेन्द्रियविषये-स्त्रीकडेवरादौ तीव्र-अत्यर्थं गृद्धा-अध्युपपन्ना 8||ये ते तथा, स्त्रीगता ये रूपशब्दरसगन्धास्तेषु इष्टा-अभिमता या रतिः तथा स्त्रीगत एव मोहितो-वाञ्छितो दायो भोगो-निधुवनं तयोर्या तृष्णा-आकाङ्का तया अर्दिता-बाधिता येते तथा, ते च धनेन तुष्यन्तीति धनतोषकाः गृहीताश्च राजपुरुषैरिति गम्यं, ये केचन नरगणाः-चौरनरसमूहाः 'पुणरवित्ति एकदा ते गौल्मिकनराणां समपितास्तैश्च विविधबन्धनबद्धाः क्रियन्ते इत्युक्तं, ततः तेभ्यः सकाशात् पुनरपि ते 'कर्मदु CCCCCCI-MAHAGENCEOC ॥ ५७॥ Jain Educatiore For Personal & Private Use Only rebrar og
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy