SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Jain EducationRE विदग्धाः कर्मसु - पापक्रियासु विषये फलपरिज्ञानं प्रति अविज्ञा उपनीता - ढौकिताः राजकिङ्कराणां, किंविधानां ? - 'तेसिं'ति ये निर्दयादिधर्मयुक्तास्तेषां तथा वधशास्त्रपाठकानां इति व्यक्तं, 'बिलउलीकारकाणां ति विटपोल्लककर्तॄणां विलोकनाकारकाणां वा 'लञ्चाशतग्राहकाणां' तत्र लश्चा- उत्कोटाविशेषस्तथा कूटं - मानादीनामन्यथाकरणं कपटं-वेष भाषावैपरीत्यकरणं माया-प्रतारणबुद्धि: निकृतिः - वञ्चनक्रिया मायाया वा प्रच्छादनार्था मायाक्रियैव एतासां यदाचरणं प्रणिधिना - तदेकाग्रचित्तप्रधानेन यद्वञ्चनं प्रणिधानं वा-गूढपुरुषाणां यद्वश्ञ्चनं तच्च तयोर्विशारदाः पण्डिता ये ते तथा तेषां बहुविधालीकशतजल्पकानां परलोकपरासुखानां निरयगतिगामिकानामिति व्यक्तं, तैश्च राजकिङ्करैः आज्ञतं - आदिष्टं जीयन्ति दुष्टनिग्रहविषयमाचरितं दण्डश्च प्रतीतः जीतदण्डो वा रूढदण्डो जीवदण्डो वा जीवितनिग्रहलक्षणो येषां ते तथा, त्वरितंशीघ्रमुद्घाटिताः- प्रकाशिताः पुरवरे शृङ्गाटकादिषु तत्र शृङ्गाटकं - सिङ्घाटकं सिङ्घाटकाकारं त्रिकोणं स्थानमित्यर्थः त्रिकं रथ्यात्रयमीलनस्थानं चतुष्कं - रथ्याचतुःकमीलनस्थानं चत्वरं - अनेकरथ्यापतनस्थानं चतुर्मुखं - तथाविधदेवकुलिकादि महापथो- राजमार्गः पन्थाः - सामान्यमार्गः, किंविधाः सन्तः प्रकाशिता इत्याह ?वेत्रदण्डो लकुटः काष्ठं लेष्टुः प्रस्तरश्च प्रसिद्धाः 'पणालि'त्ति प्रकृष्टा नाली- शरीरप्रमाणा दीर्घतरा यष्टिः 'पणोलि'ति प्रणोदी प्राजनकदण्डः सुष्टिर्लता ( पादः) पाणिः पादपाणिर्वा जानुकूर्परं च एतान्यपि प्रसि डानि एभिर्ये प्रहारास्तैः सम्भग्नानि - आमर्द्दितानि मथितानि च - विलोडितानि गात्राणि येषां ते तथा, अ fonal For Personal & Private Use Only ainelibrary.org
SR No.600230
Book TitlePrashnavyakaranasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy