________________
प्रश्नव्याकर०श्रीअभयदेव.
३ अधर्म
द्वारे अदत्तावानकारका सू० ११
वृत्तिः
॥५२॥
ब्दायमानाः शृगालाः (यत्र) ततः कर्मधारयोऽतस्तत्र, तथा घूककृतघोरशब्दे-कौशिकविहितरौद्रध्वाने वेतालेभ्यः-विकृतपिशाचेभ्य उत्थितं-समुपजायन्तं निशुद्धं-शब्दान्तरामिश्रं 'कहकहेंति'त्ति कहकहायमानं यत् प्रहसितं तेन 'बीहणगं"ति भयानकमत एव निरभिरामं च-अरमणीयं यत्तत्तथा तत्र, अतिबीभत्सदुरभिगन्धे इति व्यक्तं, पाठान्तरेणातिदुरभिगन्धबीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पितृवने तथा वने -कानने यानि शून्यगृहाणि प्रतीतानि लयनानि-शिलामयगृहाणि अन्तरे-ग्रामादीनामर्धपथे आपणा-हट्टा गिरिकन्दराश्च-गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, कास्वेवंविधाखित्याह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीरा इति व्यक्तं, तथा दग्धच्छवयःशीतादिभिरुपहतत्वचः तथा निरयतिर्यग्भवा एव यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतियम्भवेषु वा यानि सङ्कटदुःखानि-निरन्तरदुःखानि तेषां यः सम्भारो-बाहुल्यं तेन वेद्यन्ते-अनुभूयन्ते यानि तानि तथा तानि पापकर्माणि सश्चिन्वन्तो-बध्नन्तः दुर्लभं-दुरापं भक्ष्याणां-मोदकादीनामन्नानां-ओदनादीनां पानानां च-मद्यजलादीनां भोजनं-प्राशनं येषां ते तथा, अत एव पिपासिताः-जाततृषः 'झुझिय'त्ति बुभुक्षिताः क्लान्ता-ग्लानीभूताः मांसं प्रतीतं 'कुणिमंति कुणपः-शवः कन्दमूलानि प्रतीतानि यत्किञ्चिच्च-यथाऽवाप्तं वस्तु इति द्वन्द्वः एतानि कृतो-विहित आहारो-भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उत्प्लुता-उत्सुका अशरणा:-अत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं?-व्यालशतशङ्कनीयं-भुजङ्गादि
॥५२॥
Jain Education
For Personal & Private Use Only
Lainelibrary.org