________________
नैव सम्यग्-यथौचित्यं प्रयोक्ता-तयोः प्रवर्तनशीलो भवति, इदमुक्तं भवति-दुर्विनीतत्वाद् गणस्य ते प्रयोक्तमशकवन |गणादपक्रामति कालिकाचार्यवदित्येकं, तथा गणविषये यथारत्नाधिकतया-यथाज्येष्ठं कृतिकर्म तथा बैनयिक-वि- नयं 'नो' नैव सम्यक् प्रयोक्ता भवति, आचार्यसम्पदा साभिमानत्वात् , यतः आचार्येणापि प्रतिक्रमणक्षामणादिपूचितानामुचितविनयः कर्तव्य एवेति द्वितीयं, तथा असौ यानि श्रुतपर्यवजातानि-यान् श्रुतपर्यायप्रकारानुद्देशकाध्यय-3 नादीन् धारयति हृद्यविस्मरणतस्तानि काले २-यथावसरे नो सम्यगनुप्रवाचयिता-तेषां पाठयिता भवति, 'गणेत्ति । इह सम्बध्यते, तेन गणे-गणविषये गणमित्यर्थः, तस्याविनीतत्वात् तस्य वा सुखलम्पटत्वान्मन्दप्रज्ञत्वाद्वेति गणादपकामतीति तृतीयं, तथा असौ गणे वर्तमानः 'सगणियाएत्ति स्वगणसम्बन्धिन्यां 'परगणियाए'त्ति परगणसत्कायां | निर्ग्रन्थ्यां तथाविधाशुभकर्मवशवर्तितया सकलकल्याणाश्रयसंयमसौधमध्याद् बहिर्लेश्या-अन्तःकरणं यस्यासौ बहि
तेश्यः, आसक्तो भवतीत्यर्थः, एवं गणादपक्रामतीति, न चेदमधिकगुणत्वेन अस्यासम्भाव्यं, यतः पठ्यते-"कम्माई है नूणं घणचिक्कणाई गरुयाई वजसाराई। नाणड्डयपि पुरिसं पंथाओ उप्पहं निंति ॥१॥"[गुरुकाणि वज्रसाराणि
चिक्कणानि कर्माणि घनानि ज्ञानाढ्यमपि पुरुष नूनं पथ उत्पथं नयंति ॥१॥] इति चतुर्थ, तथा मित्रज्ञातिगणो वा |-सुहृत्स्वजनवर्गो वा 'से' तस्याचार्यादेः कुतोऽपि कारणाद् गणादपकामेदतस्तेषां सुहृत्स्वजनानां सङ्ग्रहाद्यर्थ गणादपक्रमणं प्रज्ञप्तं, तत्र सङ्ग्रहस्तेषां स्वीकारः, उपग्रहो वस्त्रादिभिरुपष्टम्भ इति पञ्चमं । अनन्तरमाचार्यस्य गणापक्रमण-15 मुक्तं, स च ऋद्धिमन्मनुष्यविशेष इत्यधिकाराद् ऋद्धिमन्मनुष्यविशेषानाह-पंचविहे'त्यादि कण्ठ्यं, नवरं ऋद्धिः
गुरुकाणि वज्रर
कारणाद् गणात ॥१॥] इति चतुर्थ,
स्था०५६
Jain Education
hd
For Personal & Private Use Only
ww.jainelibrary.org