SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नार्थस्थविरो निर्ग्रन्थिकाऽभावे न यथाकथञ्चित् , पशुजातीयो दृप्तगवादिः पक्षिजातीयो गृध्रादिः, 'ओहाएजत्ति उपहकान्यात् तत्रेति-उपहनने गृह्णन्नातिकामति कारणिकत्वात् निष्कारणत्वे तु दोषाः, यदाह-"मिच्छत्तं उड्डाहो विराहणा फास भावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते य नायव्वा ॥१॥ [मिथ्यात्वमुड्डाहो विराधना स्पर्श भावप्रतिबंधः प्रतिगमनादयो दोषा भुक्ताभुक्तयोश्च ज्ञातव्याः ॥९॥] इत्येकं, तथा दुःखेन गम्यत इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुग्! म्लेच्छादिमनुष्यदुर्गः, तत्र वा मार्गे, उक्तं च-"तिविहं च होइ दुग्गं रुक्खे सावयमणुस्सदुग्गं च" इति [ दुर्ग त्रिविधं च भवति वृक्षश्वापदमनुष्यदुर्गभेदात् ॥] तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वा गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलणं नायव्वं पवडण भूमीऍ गत्तेहिं ॥१॥” इति [भूमावसंप्राप्तिः प्राप्तिा हस्तजान्वादिभिः। प्रस्खलनं ज्ञातव्यं प्रपतनं भूमौ गात्रैः ॥१॥"] गृहन्नातिकामतीति द्वितीय, तथा पङ्कः पनको वा सजलो यत्र निमज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कईम एव ओल्यां वा, 'अपकसंती पङ्कपनकयोः परिहसन्तीं अपोह्यमानां वा-सेके उदके वा नीयमानां गृहन्नातिकामतीति, गाथे चेह-"पंको खलु चिक्खिल्लो आगंतुं पतणुओ दवो पणओ । सोच्चिय सजलो सेओ सीइज्जइ जत्थ दुविहेवि ॥१॥” इति, पंकपणएसु नियमा ओसगणं वुझणं सिया सेए । निमियंमि निमज्जणया सजले सेए सिया दोवि ॥२॥[पंकः खलु चिक्खिल्ल आगंतुकः प्रतनुको द्रवः पनकः । सोऽपि च सजल: सेकः यत्र द्विवि| धेऽपि सीद्यते ॥१॥ पंकपनकयोनियमादधोगमनं सेके स्याद्वहन (निर्मुदि स्तिमिते ) निमज्जनता सजले सेके स्यातां dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy