________________
4%95%
नवरं नीलवन्महाह्रदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्या यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वताभ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतः शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काञ्चनकाभिधानः योजनशतोच्छ्रितैर्योजनशतमूलविष्कम्भैः पञ्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येक दशयोजनान्तरैः पूर्वापरव्यवस्थितैः गिरिभिरुपेताः, एतेषां च विचित्रकूटादिपर्वतहूदनिवासिदेवानामसङ्ख्येयतमजम्बूद्वीपे द्वादशयोजनसहसप्रमाणास्तन्नामिका नगर्यो भवन्तीति, 'सव्वेवि ण'मित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिनः, तेणं'ति शीताशीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः,मन्दरं वा-मेरुं वा पर्वतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसविद्युत्प्रभगन्धमादनागजदन्ताकारपर्वता मेरुं प्रति यथोक्तस्वरूपाः, शेषास्तु वक्षारपर्वता महानद्यौ प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोदृश्येत्यत एवोक्तम्-एवं जहा जंबू' इत्यादि । समयः-कालस्तद्विशिष्टं क्षेत्रं समयक्षेत्रं-मनुष्यक्षेत्रं तस्यैवादित्यगतिसमभिव्यङ्गयऋत्वयनादिकालयुक्तत्वात् , 'जाव पंच मंदर'त्ति इह यावत्करणात् पञ्च हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि चोपयुज्य सर्व चतुःस्थानकद्वितीयोहे|शकानुसारेण वाच्यं, नवरं 'उसुयार'त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तु ते न वाच्या, पञ्चस्थानकत्वादस्येति । अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तु तत्सम्बन्धादन्यानि च पञ्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह-'उसमे 'मित्यादिः कण्ठ्यं, नवरं 'कोसलिए'त्ति
ERSARAKAS
Jan Education
For Personal & Private Use Only
www.jainelibrary.org