SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ पृथिवीकायिकेषु संयमः-सट्टाधुपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विपययेण व्याख्येयमिति । 'पंचेंदियाण'मित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पञ्चेन्द्रियसंयमलक्षणस्येन्द्रियभेदेन भेदविवक्षणात् पञ्चविधत्वं, तत्र पञ्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जनं श्रोत्रेन्द्रियसंयमः एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः, असंयमसूत्रमेतद्विपर्यासेन बोद्धव्यमिति । 'सव्वपाणे'त्यादि, पूर्वमेकेन्द्रियपश्चेन्द्रियजीवाश्रयेण संय|मासंयमावुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चायं विशेषः-"प्राणा द्वित्रिचतुःप्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥” इति, इह सप्तदशप्रकारसंयमस्याद्या नव भेदाः सङ्गहीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतद्व्यत्ययेनासंयमसूत्रं । 'तणवणस्सइत्ति तृणवनस्पतयो-बादरा वनस्पतयोऽग्रबीजादयः क्रमेण कोरण्टका उत्सलकन्दा वंशाः शल्लक्यो वटा एवमादयो, व्याख्यातं चैतनागिति।। पंचविधे आयारे पं० २०–णाणायारे दसणायारे चरित्तायारे तवायारे वीरियायारे (सू० ४३२) पंचविधे आयारपकप्पे पं० २०-मासिते उग्घातिते मासिए अणुग्घाइए चउमासिए उग्घाइए चाउम्मासिए अणुग्घातीते आरोवणा । आरोवणा पंचविहा पं० २०-पट्टविया ठविया कसिणा अकसिणा हाडहडा (सू० ४३३) १ पुढविदगअगणिमारुय वगस्सइथितिचउपणिदिअज्जीवा । पेहुप्पेहपमजण परिवणमणोवईकाए ॥ १॥ इत्यत्रैकभेदत्वात् पश्चेन्द्रियसंयमस्य. २ विकलेन्द्रियत्रिकपञ्चेन्द्रियैः सह नव भेदा पृथ्व्यायेकेन्द्रियादिसंयमानां. Jain Education For Personal & Private Use Only Hijainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy