SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना ङ्गसूत्र वृत्तिः ।। ३२५ ।। आचरणमाचारो - ज्ञानादिविषयाऽऽ सेवेत्यर्थः ज्ञानाचारः - कालादिरष्टधा दर्शनं - सम्यक्त्वं तदाचारो - निःशङ्कितादिरष्टधैव चारित्राचारः - समितिगुप्तिभेदोऽष्टधा तपआचारोऽनशनादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेष्वेवेति । आचारस्य - प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्पः - निशीथाध्ययनं स च पञ्चविधः-पश्चविधप्रायश्चित्ताभिधायकत्वात्, तथाहि तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरुच्यते १ केषुचिच्च गुरुमासापत्तिः २ एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ssरोपणाश्चेति ५, तत्र मासेन निष्पन्नं मासिकं तपः, तच्च उद्घातो - भागपातो यत्रास्ति तदुद्धातिकं लध्वित्यर्थः, यत उक्तम् — “अद्वेण छिन्नसेसं पुत्रद्वेण तु संजुयं काउं । देज्जाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥ १ ॥” इति एतद्भावना मासिकतपोऽधिकृत्योपदश्यते-मासस्यार्द्धछिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य - पञ्चविंशतिकस्यार्द्धेन - सार्धद्वादशकेन संयुतं कृतं सार्द्धासप्तविंशतिर्भवतीति । आरोपणा तु चडावणत्ति भणियं होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्न| मेव मासलघुमासगुरुप्रभृतिकं दीयते यस्तु न तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । 'आरोवणे 'ति आरोपणोकस्वरूपा, तत्र 'पट्ठविय'त्ति बहुष्वारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति- वोढुमारभते तदपेक्षयाऽसौ प्रस्थापितेत्युक्ता १, 'ठविय'त्ति यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतं न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवैयावृत्त्यकरणार्थं, तद्धि वहन्न शक्नोति वैयावृत्त्यं कर्त्तु, वैयावृत्त्यसमाप्तौ तु तत्करिष्यतीति स्थापितोच्यत इति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोपस्त्वयं-इह तीर्थे षण्मासान्तमेव तपस्ततः पण्णां मासानामुपरि यान् मा Jain Education!! For Personal & Private Use Only ५ स्थाना० उद्देशः २ आचाराः उद्धातिकाद्यारोपणाः सू० ४३२ ४३३ ॥ ३२५ ॥ ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy