________________
चारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यते पार्श्वनाथसाधोर्वा पञ्चयामधर्मप्रतिपत्तौ, सातिचार तु यन्मूलप्रायश्चित्तप्राप्तस्येति, इहापि गाथे-"परियायस्स उ छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारेतरं दुविहं ॥१॥ सेहस्स निरइयारं तित्थंतरसंकमे व तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥२॥"* पर्यायस्य छेदः यत्रोपस्थापनं च व्रतेषु छेदोपस्थापनमिह तदनतिचारतरत्वाभ्यां द्विविधं ॥१॥ शिष्यस्य निरतिचारं तीर्थान्तरसंक्रमे वा तद्भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥१॥] (प्रथमपश्चिमतीर्थयोरित्यर्थः>, तथा परिहरणं परिहारः-तपोविशेषः तेन विशुद्धं परिहारो वा विशेषेण शुद्धो यस्मिंस्तत्सरिहारविशुद्धं तदेव परिहारविशु|द्धिक, परिहारेण वा विशुद्धियस्मिंस्तत्सरिहारविशुद्धिकं, तच्च द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकानां च तदासेवकानां यत्तनिर्विशमानकं, यत्तु निर्विष्टकायिकानामासेवितविवक्षितचारित्रकायानां तन्निर्विष्टकायिकमिति, इहापि गाथे—“परिहारेण विसुद्धं सुद्धो य तवो जहिं विसेसेणं । तं परिहारविसुद्धं परिहारविसुद्धियं नाम ॥१॥ तं दुविकप्पं निविस्समाणनिविट्ठकाइयवसेणं । परिहारियाणुपरिहारियाण कप्पट्टियस्सऽविय ॥२॥” इति, [परिहारेण विशुद्धं यत्र विशेषेण शुद्धं च तपः। तत्परिहारविशुद्धं परिहारविशुद्धिकं नाम ॥१॥ तद् द्विविकल्पं निर्विशमाननिर्विष्टकायिकवशात् परिहारिकानुपरिहारिकाणां कल्पस्थितस्यापि च ॥२॥] इह च नवको गणो भवति, तत्र चत्वारः परिहारिका अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः-ग्रीष्मे जघन्यादीनि चतुर्थषष्ठाप्टमादीनि शिशिरे तु षष्ठाष्टमदशमानि वर्षास्वष्टमदशमद्वादशानि पा
यत्र विशेषणवासमाणनिविद्वकाइयवसणी तो जहिं विसेसेणं । तं पारातचारित्रकायानां तनिष्ट
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org