SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आस्थानाङ्गसूत्र वृत्तिः ॥ ३२३ ॥ Jain Education I वा आयः सामायः स एव सामायिकं, अभ्यधायि च - " अहवा सामं मेत्ती तत्थ अओ तेण वत्ति सामाओ | अहवा सामस्साओ लाभो सामाइयं नाम ॥ १ ॥” इति [ अथवा साम मैत्री तत्रायस्तेन वाड्य इति सामायः अथवा साम्न आयो लाभः सामायिकं नाम ॥ १ ॥ ] सावद्ययोगविरतिरूपं सर्वमपि चारित्रमविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशिष्यमाणमर्थतः शब्दतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा - इत्वरकालिकं यावज्जीविकं च तत्रेत्वरकालिकं सर्वेषु प्रथमपश्चिमतीर्थकर तीर्थेष्वनारोपितव्रतस्य यावज्जीविकं तु मध्यमविदेहतीर्थकर तीर्थेषु भवति इति, तेषूपस्थापनाऽभावादिति, सामायिकं च तत्संयमश्चेत्येवं सर्वत्र वाक्यं कार्यमिति, भवन्ति चात्र गाथाः - " सव्वमिणं सामाइय छेदादिविसेसओ पुण विभिन्नं । | अविसेसियमादिमयं ठियमिह सामन्नसन्नाए ॥ १ ॥ सावज्जजोगविरइति तत्थ सामाइयं दुहा तं च । इत्तरमावकतिय पढमं पढमंतिमजिणाणं ॥ २ ॥ तित्थेसु अणारोवियवयस्स सेहस्स थोवकालीयं । सेसाणमावकहियं तित्थेसु विदेहयाणं च ॥३॥” इति [सर्वमिदं सामायिकं छेदादिविशेषतः पुनर्विभिन्नं अविशेषितमादिमं स्थितं चैतदिह सामान्यसंज्ञया ॥ १ ॥ सावद्ययोगविरतिरिति तत्र सामायिकं द्विधा तच्च इत्वरं यावत्कथिकमिति च प्रथमं प्रथमान्तिमजिनयोः ॥ २ ॥ तीर्थयोरनारोपितव्रतस्य शैक्षस्य स्तोककालीनं । शेषाणां यावत्कथिकं तीर्थेषु विदेहगानां च ॥ ३ ॥ ] तथा छेदश्च पूर्वपर्यायस्योपस्थापनं च व्रतेषु यत्र तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं ते वा विद्येते यत्र तच्छेदोपस्थापनिकमथवा पूर्वपर्यायच्छेदेनोपस्थाप्यते - आरोप्यते यन्महात्रतलक्षणं चारित्रं तच्छेदोपस्थापनीयं तदपि द्विधा - अनतिचारं साति For Personal & Private Use Only ५ स्थाना० उद्देशः २ सामायि काद्याः सू० ४३१ ॥ ३२३ ॥ ainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy