________________
4
-15
श्रीस्थाना- गसूत्रवृत्तिः
॥३२०॥
दोषैराधाकर्मादिभिः षोडशप्रकारभक्तपानोपकरणालयानामशुद्धता, एवं सर्वत्र, नवरं उत्पादनया-उत्पादनादोषैः पो- डशभिः धाच्यादिभिः एषणया-तद्दोषैर्दशभिः शङ्कितादिभिरिति, परिकर्म-वस्त्रपात्रादेः छेदनसीवनादि तेन तस्योपघातः-अकल्प्यता, तत्र वस्त्रस्य परिकर्मोपघातो यथा-"तिण्हुवरि फालियाणं वत्थं जो फालियं तु संसीवे । पंचण्हं एगतरं [अर्णिकाद्यन्यतरत् > सो पावइ आणमाईणि ॥१॥[यस्तिसृणां थिग्गलिकानां उपरि थिग्गलिकां वस्त्रे संसीव्येत् पंचविधानामेकतरस्मिन् स प्राप्नोत्याज्ञादीनि ॥१॥] तथा पात्रस्य "अवलक्खणेगबंधे दुगतिगअइरेगबंधणं वावि । जो पायं परियट्टइ [परिभुते> परं दिवड्डाओ मासाओ॥१॥” [अपलक्षणमेकबंधं द्वित्रिविशेषबन्धनं वापि । य एतत् पात्रं परिभुते सार्धात् मासासरतः॥१॥] स आज्ञादीनामोतीति, तथा वसतेः “दूमिय धूमिय वासिय उज्जोइय बलिकडा अवत्ता य । सित्ता संमहाविय विसोहिकोडिं गया वसही ॥१॥” इति [दूमिता धवलिता वासितोद्योतिता बलिकृताऽव्यक्ता च सिक्ता संमृष्टापि च वसतिर्विशोधिकोटिं गता ॥१॥] [दूमिता धवलिता बलिकृता कूरादिना अव्यक्ता छगणादिना लिप्ता संमृष्टा सम्मार्जितेत्यर्थः>, तथा परिहरणा-आसेवा तयोपध्यादेरकल्प्यता, तत्रोपधेर्यथा एकाकिना हिंडकसाधुना यदासेवितमुपकरणं तदुपहतं भवतीति समयव्यवस्था, "जग्गण अप्पडिबज्झण जइवि चिरेणं न उवहमे" [जागरणमप्रतिबन्धः (स्तस्तदा) यद्यपि चिरेणागच्छति गच्छे न तथाप्युपहन्यात् ॥] इति वचनाद्, अस्य चायमर्थः-एकाकी गच्छभ्रष्टो यदि जागर्ति दुग्धादिषु च न प्रतिबद्ध्यते तदा यद्यप्यसौ गच्छे चिरेणागच्छति तथाप्युपधिर्नोपहन्यते अन्यथा तूपहन्यत इति, वसतेरपि मासचतुर्मासयोरुपरि कालातिक्रान्तेति तथा मासद्वयं
५ स्थाना० | उद्देशः२ पञ्चमासिकी प्रतिमा उपघातविशुद्धो सू०४२४. ४२५
355555
॥३२॥
Jain Education Mein
For Personal & Private Use Only
www.jainelibrary.org