________________
पाणातिवातवेरमणेणं जाव परिग्गहवेरमणणं (सू०४२३) पंचमासियं णं भिक्खुपडिमं पडिवनस्स अणगारस्स कप्पति पंच दत्तीओ भोयणस्स पडिगाहेत्तते पंच पाणगस्स (सू० ४२४ ) पंचविधे उवघाते पं० तं०-उग्गमोवघाते उप्पायणोवघाते एसणोवघाते परिकम्मोवघाते परिहरणोवघाते । पंचविहा विसोही पं० तं०-उग्गमविसोही उप्पायणविसो.धी एसणाविसोही परिकम्मविसोही परिहरणविसोधी (सू० ४२५) व्यक्तं, नवरं 'संजये'त्यादि 'संयतमनुष्याणां साधूनां 'सुप्तानां निद्रावतां जाग्रतीति जागरा:-असुप्ता जागरा इव जागराः, इयमत्र भावना-शब्दादयो हि सुप्तानां संयतानां जाग्रद्वह्निवदप्रतिहतशक्तयो भवन्ति, कर्मबन्धाभावकारणस्याप्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं भवन्तीत्यर्थः। द्वितीयसूत्रभावना तु जागराणां शब्दादयः सुप्ता इव सुप्ताः भस्मच्छन्नाग्निवत् प्रतिहतशक्तयो भवन्ति, कर्मबन्धकारणस्य प्रमादस्य तदानीं तेषामभावात्, कर्मबन्धकारणं न भवन्तीत्यर्थः। संयतविपरीता ह्यसंयता इति तानधिकृत्याह-'असंजए'त्यादि व्यक्तं, नवरमसंयतानां प्रमादितया अवस्थाद्वयेऽपि कर्मवन्धकारणतया अप्रतिहतशक्तित्वाच्छन्दादयो जागरा इव जागरा भवन्तीति भावना । संयतासंयताधिकारात् तद्व्यतिकराभिधायि सूत्रद्वयं सुगम, नवरं 'जीव'त्ति असंयतजीवाः 'रयति जीवस्वरूपोपरञ्जनाद्रज इव रजः-कर्म 'आइयंति'त्ति आददति गृह्णन्ति बनन्तीत्यर्थः, 'जीव'त्ति संयतजीवाः 'वमंति'त्ति त्यजन्ति क्षपयन्तीत्यर्थः । संयताधिकारादेवापरं सूत्रद्वयं 'पंचमासिए'त्यादि व्यक्तं, नवरं उपघात:-अशुद्धता, उद्गमोपघातः उद्गम
१ खाभाविकाः शब्दादयः सुप्तदशायां खतन्त्रतया प्रवर्तन्ते जामतां तु यतनयेति शब्दादीनां सुप्ते जाग्रदितरते अथवा खप्नजाग्रत्ते अवबोधानबोधी.
स्था०५४
Jan Educon
For Personal & Private Use Only
vainelibrary.org