SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ द्रव्ये क्षेत्रे काले कारणे पुरुषे च तादृशीचैव पुनः कारयन्नाराधको भवति ॥ १३ ॥ वैयावृत्त्यकरो वा देशहिंडको वापि शिष्यः देशमवधारयन् चतुर्थको भवति व्यवहारः॥ १४ ॥ बहुश्रुतैर्बहुशो वृत्तो न निवारितश्च भवति वृत्तानुवृत्तप्रवृत्तः एतज्जीतेन कृतं भवति ॥ १५॥] तथा-'जं जस्स उ पच्छित्तं आयरिअपरंपराएँ अविरुद्धं । जोगा य बहुविहीया एसो खलु जीयकप्पो उ ॥१६॥” इति यद् यस्याचार्यपरम्परयाऽविरुद्धं प्रायश्चित्तं योगाश्च बहुविधिकाः एष खलु जीतकल्प | एव ॥१६॥] जीत-आचरितं इदं चास्य लक्षणं-"असढेण समाइन्नं जं कत्थइ केणई असावज । न निवारियमन्नेहिं| बहुमणुमयमेयमायरियं ॥ १७ ॥” इति, [अशठेन समाचीर्ण यत्कुत्रचित्केनचिदसावा । अन्यैर्न निवारितं अनुमतं बहुगुणमेतदाचरितं ॥१॥] आगमादीनां व्यापारणे उत्सर्गापवादावाह-'यथेति यत्प्रकारः केवलादीनामन्यतमः 'से' तस्य व्यवहर्नुः स च उक्तलक्षणः 'तत्र' तेषु पञ्चसु व्यवहारेषु मध्ये तस्मिन् वा प्रायश्चित्तदानादिव्यवहारकाले व्यवहर्त्तव्ये वा वस्तुनि विषये आगम:-केवलादिः स्याद्-भवेत् तादृशेनेति शेषः आगमेन 'व्यवहारं' प्रायश्चित्तदानादिकं 'प्रस्थापयेत्' प्रवर्त्तयेत् , न शेषैः, आगमेऽपि पडिधे केवलेनावन्ध्यबोधत्वात् तस्य तदभावे च मनःपर्यायेणैवं | प्रधानतराभावे इतरेणेति, अथ 'नो' नैव 'सें तस्य स वा 'तत्र' व्यवहर्त्तव्यादावागमः स्यात् 'यथा' यत्प्रकारं तत्र | श्रुतं स्यात् तादृशेन श्रुतेन व्यवहारं प्रस्थापयेदिति, 'इच्चेएहिं' इत्यादि निगमनं सामान्येनेति, यथा यथाऽसौ तत्रागमादि स्यात्तथा तथा व्यवहारं प्रस्थापयेदिति तु विशेषनिगमनं इति । एतैर्व्यवहतः प्रश्नद्वारेण फलमाह-'से किमे'त्यादि, अथ किं हे भदन्त!-भट्टारका आहुः-प्रतिपादयन्ति, के ?-आगमबलिका-उक्तज्ञानविशेषबलवन्तः श्रमणा नि Jain Educa For Personal & Private Use Only Siainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy