________________
शुद्धिदानं साऽऽज्ञा ३ गीतार्थसंविग्नेन द्रव्याद्यपेक्षया यत्रापराधे यथा या विशुद्धिः कृता तामवधार्य यदन्यस्तत्रैव तथैव तामेव प्रयुङ्क्ते सा धारणा वैयावृत्त्यकरादेव गच्छोपग्रहकारिणो अशेषानुचितस्योचितप्रायश्चित्तपदानां प्रदर्शितानां धरणं धारणेति ४ तथा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेवानुवृत्त्या संहननधृत्यादिपरिहाणिमपेक्ष्य यत्प्रायश्चित्तदानं यो वा यत्र गच्छे सूत्रातिरिक्तः कारणतः प्रायश्चित्तव्यवहारः प्रवर्त्तितो बहुभिरन्यैश्वानुवर्त्तितस्तज्जीतमिति, अत्र गाथा: - " आगमसुयववहारो मुणह जहा धीरपुरिसपन्नत्तो । पच्चक्खो य परोक्खो सोऽविअ दुविहो मुणेयव्वो ॥ १ ॥ पञ्चखोवि य दुविहो इंदियजो चेव नो य इंदियओ । इंदियपच्चक्खोविय पंचसु विसएसु नेयब्वो ॥ २ ॥ नोइंदियपञ्चक्खो ववहारो सो समासओ तिविहो । ओहिमणपज्जवे या केवलनाणे य पच्चक्खो ॥ ३ ॥ पञ्चवक्खागमसरिसो होइ परोक्खोवि आगमो जस्स । चंदमुहीव उ सोविहु आगमववहारवं होइ ॥ ४ ॥ पारोक्खं ववहारं आगमओ सुयहरा ववहरति । चोदसदसपुव्वधरा नवपुव्विग गंधहत्थी य ॥ ५ ॥ [ शृणुत यथा धीरपुरुषप्रज्ञप्तं आगमश्रुतव्यवहारं सोऽपि च द्विविधः प्रत्यक्षः परोक्षश्च ज्ञातव्यः ॥ १ ॥ प्रत्यक्षोऽपि च द्विविधः इंद्रियजश्चैव नोइंद्रियजश्चैव इंद्रियप्रत्यक्षोऽपि च पंचसु विषयेषु ज्ञातव्यः ॥ २ ॥ स नोइंद्रियप्रत्यक्षो व्यवहारः संक्षेपतस्त्रिविधः अवधिमनः पर्यवौ च केवलज्ञानं च प्रत्यक्षः ॥ ३ ॥ प्रत्यक्षागमसदृशो भवति परोक्षेऽप्यागमो यस्य चंद्रमुखीव सोऽपि आगमव्यवहारवानेव भवति ॥ ४ ॥ श्रुतधरा आगमतः परोक्षं व्यवहारं व्यवहरन्ति चतुर्दशदशपूर्वधरा नवपूर्वी गंधहस्ती च ॥ ५ ॥ ] ( एते गन्धहस्तिसमाः ) "जं जहमोल्लं रयणं तं जाणइ रयणवाणिओ निउणं । इय जाणइ पञ्चक्खी जो सुज्झइ जेण दिन्नेणं ॥ ६ ॥ कप्परस य निज्जुतिं
dain Educational
For Personal & Private Use Only
w.jainelibrary.org