SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ लगताः-निवासं प्राप्ता इत्यर्थः, 'एगइया यत्यत्ति एकका-एकतरा निर्ग्रन्था निर्ग्रथिका वा चः पुनरर्थः अत्र-ग्रामादौ उपाश्रयं-गृहपतिगृहादिकमिति, तथा 'अत्थे'ति अथ गृहपतिगृहादिकमुपाश्रयमलब्ध्वा 'एगइया' एके केचन नागकु मारावासादौ वासमुपागताः अथवा 'अत्थेति इह सम्बध्यते अस्ति सन्ति भवन्ति निवासमुपगता इति, तस्य च ना-12 &ागकुमारावासादेरतिशून्यत्वादथवा बहुजनाश्रयत्वादनायकत्वाच्च निर्ग्रन्थिकारक्षार्थमेकत एव स्थानादि कुर्वाणा नाति-14 क्रामन्तीति, तथा आमुष्णन्तीत्यामोषकाः-चौरा दृश्यन्ते ते च इच्छन्ति निग्रन्थिकाः 'चीवरवडियाए'त्ति चीवरमतिज्ञया-वस्त्राणि गृहीष्याम इत्यभिप्रायेण प्रतिगृहीतुं यत्रेति गम्यते तत्र निर्ग्रन्थास्तद्रक्षणार्थमेकतः स्थानादिकमिति ४ तथा मैथुनप्रतिज्ञया-मैथुनार्थमिति ५ । इदमपवादसूत्रम् , उत्सर्गश्चापवादसहितो भाष्यगाथाभिरवसेयस्ताश्चेमाः-"भयणपयाण चउण्हं [एकः साधुरेका स्त्रीत्यादिभङ्गकानामित्यर्थः> अन्नतरजुए उ संजए संते । जे भिक्खू विहरेजा अहवावि करेज सज्झायं ॥१॥ असणादिं वाऽऽहारे उच्चारादिं च आचरेजाहि । निट्ठरमसाधुजुत्तं अन्नतरकहं च जो कहए ॥२॥[चतुर्णा भजनापदानामन्यतरयुतः सन् संयतो यो भिक्षुर्विहरेत् अथवा स्वाध्यायमपि कुर्यात् ॥१॥ अशनादि वाऽऽहरेदुच्चारादि वाऽऽचरेत् असाधुयुक्तां निष्ठुरामन्यतरां कथां च कथयेद्यः ॥२॥] [स्त्रीभिः सहेति > “सो आणाअणवत्थं मिच्छत्तविराहणं तहा दुविहं । पावइ जम्हा तेणं एए उ पए विवजेजा ॥ ३॥” इति [स आज्ञाभं-12 है गमनवस्थां मिथ्यात्वं विराधनां तथा द्विविधां । प्राप्नोति. यस्मात्तत एतानि स्थानानि वर्जयेत् ॥३॥] "बीयपयमणप्पज्जे [ अपवादोऽनात्मवशे इत्यर्थः > गेलन्नुवसग्गरोहगद्धाणे । संभमभयवासासु य खंतियमाईण निक्खमणे ॥ ४ ॥” इति, COURSCACASSACR Jain Education a l For Personal & Private Use Only V w.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy