________________
व्यापन्नश्रोताः, तथा व्यादिग्धं व्याविद्धं वा-वातादिव्याप्तं विद्यमानमप्युपहतशक्तिक श्रोतः-उक्तरूपं यस्याः सा व्यादिग्धश्रोता व्याविद्धश्रोता ना, तथा मैथुने प्रधानमङ्ग मेहनं भगश्च तत्प्रतिषेधोऽनङ्गं तेनानङ्गेन-अहार्यलिङ्गादिना अनङ्गे वा-मुखादौ प्रतिषेवाऽस्ति यस्याः अनङ्ग वा-काममपरापरपुरुषसम्पर्कतोऽतिशयेन प्रतिषेवत इत्येवंशीलाऽनङ्गप्रतिविणी, तथाविधवेश्यावदिति, ऋतौ-ऋतुकाले नो-नैव निकामम्-अत्यर्थ बीजपातं यावत् पुरुष प्रतिषेवत इत्येवंशीला निकामप्रतिषेविणी 'वाऽपी'ति उत्तरविकल्पापेक्षया समुच्चये समागता वा 'से' तस्यास्ते प्रतिविध्वंसन्ते-योनिदोषादुपहतशक्तयो भवन्ति, मेहनविश्रोतसा वा योनेर्बहिः पतन्तो विध्वंसन्ते इति, उदीर्ण च-उत्कटं तस्याः पित्तप्रधानं शोणितं |
स्यात् तच्चाबीजमिति, पुरा वा-पूर्व वा गर्भावसरात् देवकर्मणा-देवक्रियया देवतानुभावेन शक्त्युपघातः स्यादिति | दशेषः, अथवा देवश्च कार्मणं च-तथाविधद्रव्यसंयोगो देवकार्मणं तस्मादिति, पुत्रलक्षणं फलं पुत्रो वा फलं
यस्य कर्मणस्तत्पुत्रफलं तद्वा नो निर्विष्टं भवति, अलब्धं अनुपात्तं स्यादित्यर्थः, 'थेवं बहुनिव्वेसं' इत्यादौ निर्वेशशब्दस्य लाभार्थस्य दर्शनादथवा पुत्रः फलं यस्य तत्पुत्रफलं-दानं तजन्मान्तरेऽनिर्विष्ट-अदत्तं भवति, निर्विष्टस्य दत्तार्थत्वात् , यथा 'नानिविटुं लब्भईत्ति । त्यधिकारादेव साध्वीवक्तव्यताप्रतिबद्धं सूत्रद्वयमिदमाह
पंचहिं ठाणेहिं निग्गंथा निग्गंधीओ य एगतओ ठाणं वा सिजं वा निसीहियं वा चेतेमाणे णातिकमंति, तं०-अत्थेगइया निग्गंथा निग्गंथीओ य एणं महं अगामितं छिन्नावार्य दीहमद्धमडविमणुपविट्ठा तत्थेगयतो ठाणं वा सेजं वा निसीहियं वा चेतेमाणे णातिकमति १, अत्थेगइया णिग्गंथा २ गामंसि वा णगरंसि वा जाव रायहाणिसि वा वासं उवा
स्था०५३
Jain Education
For Personal & Private Use Only
Mr.jainelibrary.org