SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Jain Education I | भेदादथवा द्रव्यतो दिव्यमानुषतैरश्चभेदात् रूपरूपसहगतभेदाद्वा तत्र रूपाणि- निर्जीवानि प्रतिमारूपाण्युच्यन्ते रूप| सहगतानि तु - सजीवानि भूषणविकलानि वा रूपाणि भूषणसहितानि रूपसहगतानीति क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे राज्यादिसमुत्थाद्वा भावतो रागद्वेषप्रभवात् मिथुनं स्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद् विरमणमिति, तथा सर्वस्मात् - कृतादेरथवा द्रव्यतः सर्वद्रव्यविषयात् क्षेत्रतो लोकसम्भवात् कालतोऽतीतादे राज्यादिभवाद्वा भावतो रागद्वेषविषयात् परिगृह्यते - आदीयते परिग्रहणं वा परिग्रहः तस्माद्विरमणमिति ॥ व्रतप्रस्तावात् 'पञ्चाणुव्वए' त्याद्यणुत्रतसूत्रं, स्फुटं चेदं, किन्तु अणूनि - लघूनि व्रतानि अणुव्रतानि, लघुत्वं च महाव्रतापेक्षया अल्पविषयत्वादिनेति प्रतीतमेवेति, उक्तं च - " सव्वगयं सम्मत्तं सुए चरित्ते ण पज्जवा सव्वे । देसविरडं पडुच्चा दोन्हवि पडिसेहणं कुज्जा ॥ १ ॥ " इति [ सर्वद्रव्यपर्यायगतं सम्यक्त्वं श्रुते चारित्रे च सर्वे पर्याया न । देशविरतिं प्रतीत्य द्वयोरपि प्रतिषेधं कुर्यात् न सर्वद्रव्याणि न सर्वपर्यवाः ॥ १ ॥ ] अथवा अनु- महाव्रतकथनस्य पश्चात्तदप्रतिपत्तौ यानि व्रतानि कथ्यन्ते तान्यनुव्रतानि, उक्तं च - " जइधम्मस्सऽसमत्थे जुज्जइ तद्देसणंपि साहूणं । तदहिगदोसनिवित्तीफलंति कायाणुकंपट्टा ॥१॥” इति [ यतिधस्यासामर्थ्य तद्देशनमपि साधूनां युज्यते तदधिकदोषनिवृत्तिफलत्वात्कायानुकंपार्थं ॥ १ ॥ ] अथवा सर्वविरतापेक्षया अणोः -लघोर्गुणिनो व्रतान्यणुव्रतानीति, स्थूला-द्वीन्द्रियादयः सत्त्वाः, स्थूलत्वं चैषां सकललौकिकानां जीवत्वप्रसिद्धेः, स्थूलविषयत्वात् स्थूलः तस्मात् प्राणातिपातात् । तथा स्थूलः - परिस्थूल - वस्तुविषयोऽतिदुष्टविवक्षासमुद्भवास्तस्मात् मृषावादात् तथा परिस्थूरवस्तुविषयं चौर्यारोपणहेतुत्वेन प्रसिद्धमतिदुष्टाध्यवसायपूर्वकं स्थूलं तस्माददत्तादानात् तथा For Personal & Private Use Only jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy