SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ** श्रीस्थानालसूत्र * वृत्तिः ॥२९ ॥ जीवादिविषयत्वेन महाविषयत्वात् , उक्तश्च-"पढमंमि सव्वजीवा बीए चरमे अ सम्बदबाई । सेसा महव्वया खलु ५स्थाना० तदेकदेसेण दव्वाणं ॥१॥” इति, [प्रथमे सर्वे जीवा द्वितीये चरमे च सर्वाणि द्रव्याणि । शेषाणि महाव्रतानि तदेक- उद्देशः१ देशे द्रव्याणां ॥१॥][ 'तदेकदेसेणं ति तेषां-द्रव्याणामेकदेशेनेत्यर्थः> तथा यावज्जीवं त्रिविधं त्रिविधेनेति प्रत्या- महाव्रताख्यानरूपत्वाच्च तेषामिति, देशविरतापेक्षया महतो वा गुणिनो व्रतानि महबतानीति, पुंल्लिङ्गनिर्देशस्तु प्राकृतत्वा- णुव्रतानि दिति, प्रज्ञप्तानि-तथाविधशिष्यापेक्षया प्ररूपितानि महावीरणाणाद्यतीर्थकरेण च न शेषैरिति, एतत्किल सुधर्मस्वामी सू० ३८९ जम्बूस्वामिन-प्रतिपादयामास, तद्यथा सर्वस्मात्-निरवशेषात्रसस्थावरसूक्ष्मबादरभेदभिन्नात् कृतकारितानुमतिभेदाच्चेत्यर्थः, अथवा द्रव्यतः षड्जीवनिकायविषयात् क्षेत्रतस्त्रिलोकसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषसमुत्थाच्च, न तु परिस्थूरादेवेति भावः, प्राणानां-इन्द्रियोच्छासायुरादीनामतिपातः-प्राणिनः सकाशाद्विभ्रंशः प्राणातिपातःप्राणिप्राणवियोजनमित्यर्थः तस्माद्विरमणं-सम्यग्ज्ञानश्रद्धानपूर्वकं निवर्तनमिति, तथा सर्वस्मात्-सद्भावप्रतिषेधा १ सद्भावोद्भावन २ अर्थान्तरोक्ति ३ गर्दाभेदात् ४ कृतादिभेदाच्च अथवा द्रव्यतः सर्वधर्मास्तिकायादिद्रव्यविषयात् क्षेत्रतः सर्वलोकालोकगोचरात् कालतोऽतीतादे राज्यादिवर्त्तिनो वा भावतः कषायनोकषायादिप्रभवात्|| मृषा-अलीकं वदनं वादो मृषावादः तस्माद्विरमणं-विरतिरिति, तथा सर्वस्मात्-कृतादिभेदादथवा द्रव्यतः सचेतनाचेतनद्रव्यविषयात् क्षेत्रतो ग्रामनगरराण्यादिसम्भवात् कालतोऽतीतादे राज्यादिप्रभवाद्वा भावतो रागद्वेषमोहसमु ॥२९ ॥ त्थात् अदत्तं-स्वामिना अवितीर्ण तस्याऽऽदानं-ग्रहणमदत्तादानं तस्माद्विरमणमिति, तथा सर्वस्मात् कृतकारितानुमति-| * ॐॐ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy