SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Jain Education पवेसेज्जा ४ बहिता व णं आरामगयं वा उज्जाणगयं वा रायंतेडरजणो सव्वतो समंता संपरिक्खिवित्ता णं निवेसिज्जा । इजेहिं पंचहिं ठाणेहिं समणे निग्गंथे जाव णातिकमइ ( सू० ४१५ ) नाइक्कमति आज्ञामाचारं वेति, नगरं स्यात् भवेत् सर्वतः - सर्वासु दिक्षु समन्ताद् - विदिक्षु, अथवा सर्वतः किमुक्तं भवति ? - समन्तादिति, गुप्तं प्राकारवेष्टितत्वात् गुप्तद्वारं द्वाराणां स्थगितत्वात् श्राम्यन्ति-तपस्यन्तीति श्रमणाः मा वधीरिति प्रवृत्तिर्येषा ते माहनाः - उत्तरगुणमूलगुणवन्तः संयता इत्यर्थः अथवा श्रमणाः - शाक्यादयः माहना - ब्राह्मणा 'नो संचाएन्ति' सि न शक्नुवन्ति, भक्ताय पानाय वा निष्क्रमितुं वा निर्गन्तुं नगरात् तद्बहिर्भिक्षाकुलेषु भिक्षित्वा तथैव प्रवेष्टुं चेति, ततस्तेषां श्रमणादीनां प्रयोजने विज्ञापनाय राज्ञोऽन्तःपुरस्थस्य प्रमाणभूतराज्ञ्या वा राजान्तःपुरमनुप्रविशेद्, इह च शाक्यादीनां प्रयोजने यद्राज्ञो विज्ञापनं तदपवादापवादरूपं, असंयताविरतत्वात्तेषां एतच्च किञ्चिदात्यन्तिकं सङ्घादिप्रयोजनमवलम्बमानानां भवतीति समवसेयमित्येकं, तथा कृतप्रयोजनैः प्रतिहियते - प्रतिनीयते यत्तत्प्रतिहारप्रयोजनत्वात् प्रातिहारिकं पीठं पट्टादिकं फलकं - अवष्टम्भफलकं शय्या-सर्व्वाङ्गीणा फलकादिरूपा संस्तारको - लघुतरोSथवा शय्या - शयनं तदर्थः संस्तारकः शय्यासंस्तारको द्वन्द्वैकवद्भावात् पीठफलकशय्यासंस्तारकं 'पच्चप्पिणमाणे'त्ति आर्षत्वात् प्रत्यर्पयितुं तत्प्रविशेत् यस्माद् यदानीतं तत्तत्रैव निक्षेप्तव्यमिति कृत्वेति द्वितीयं, हयादेर्दुष्टादागच्छतो भीत इति तृतीयं परः - आत्मव्यतिरिक्तः 'सहस'त्ति अकस्मात् 'बलस'त्ति बलेन हठात् सकारस्त्वागमिको बाहौ गृहीस्वेति चतुर्थ, 'बहिया वत्ति नगरादेर्बहिरारामगतं वा उद्यानगतं वा निर्ग्रन्थं तत्र आरामो विविधपुष्पजात्युपशोभित For Personal & Private Use Only jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy