________________
CHECEMBECAUSEk
एमेए दस आहिया ॥२॥” इति [धन्यश्च सुनक्षत्रः ऋषिदासश्चाख्यातःपेल्लको रामपुत्रश्चंद्रमाःप्रोष्ठक इति ॥१॥ पेढालपुब्रोऽनगारः पोट्टिलश्च विहल्लः दशम उक्तः एवमेते आख्याता दश ॥२॥] तदेवमिहापि वाचनान्तरापेक्षयाऽध्ययनवि|भाग उक्तो न पुनरुपलभ्यमानवाचनापेक्षयेति, तत्र धन्यकसुनक्षत्रकथानके एवं-काकन्द्यां नगर्या भद्रासार्थवाहीसुतो धन्यको नाम महावीरसमीपे धर्ममनुश्रुत्य महाविभूत्या प्रव्रजितः षष्ठोपवासी उज्झ्यमानलब्धाचाम्लपारणो विशिष्टतपसा क्षीणमांसशोणितो राजगृहे श्रेणिकमहाराजस्य चतुर्दशानां श्रमणसहस्राणां मध्येऽतिदुष्करकारक इति महावीरेण व्याहतस्तेन च राज्ञा सभक्तिकं वन्दित उपबृंहितश्च कालं च कृत्वा सर्वार्थसिद्धविमान उत्पन्न इति, एवं सुनक्षत्रोऽपीति, कार्तिक इति हस्तिनागपुरे श्रेष्ठी इभ्यसहस्रप्रथमासनिक: श्रमणोपासको जितशत्रुराजस्याभियोगाच्च परिव्राजकस्य मासक्षपणपारणके भोजनं परिवेषितवान् तमेव निर्वेदं कृत्वा मुनिसुव्रतस्वामिसमीपे प्रव्रज्यां प्रतिपन्नवान् द्वादशाङ्गधरो भूत्वा शक्रत्वेनोसन्न इत्येवं यो भगवत्यां श्रूयते सोऽन्य एव अयं पुनरन्योऽनुत्तरसुरेषूपपन्न इति, 'शालिभद्र' इति यः पूर्वभवे सङ्गमनामा वत्सपालोऽभवत् , सबहुमानं च साधवे पायसमदात् , राजगृहे गोभद्रश्रेष्ठिनः पुत्रत्वेनोपन्नो, देवीभूतगोभद्रश्रेष्ठिसमुपनीतदिव्य भोजनवसन कुसुमविलेपनभूषणादिभिर्भोगाङ्गैरङ्गनानां द्वात्रिंशता सह सप्तभूमिकरम्यहHतलगतो ललति स्म, वाणिजकोपनीतलक्षमूल्यबहुरत्नकम्बला गृहीता भद्रया शालिभद्रमात्रा वधूनां पादपोञ्छनीकृताश्चेतिश्रवणाजातकुतूहले दर्शनार्थ गृहमागते श्रेणिकमहाराजे जनन्याऽभिहितो-यथा त्वां स्वामी द्रष्टुमिच्छतीत्यवतर प्रासादशृङ्गात् स्वामिनं पश्येतिवचनश्रवणादस्माकमप्यन्यः स्वामीति भावयन् वैराग्यमुपजगाम
dain Education
l
For Personal & Private Use Only
wimrainelibrary.org