SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३१० ॥ विकृतिनवकपरित्यागः पीठफलकादिसंस्तारकादानमुच्चारादिमात्रकसंग्रहणं लोचकरणं शैक्षाप्रत्राजनं प्राग्गृहीतानां भस्मडगलकादीनां परित्यजनमितरेषां ग्रहणं द्विगुणवर्षोपग्रहोपकरणधरणमभिनवोपकरणाग्रहणं सक्रोशयोजनात् परतो गमनवर्जनमित्यादिकः, उक्तंच - " दव्वद्ववणाऽऽहारे विगई संथारमत्तए लोए । सच्चित्ते अच्चित्ते वोसिरणं गहणधराइ ॥ १ ॥” इति [ द्रव्यस्थापनाऽऽहारे विकृतिः संस्तारकमात्र कलोचाः सचित्तेऽचित्ते व्युत्सर्जनं ग्रहणं धारणं इत्यादि | ॥ १ ॥ ] 'दव्वट्ठवण' त्ति निशीथे द्वारपरामर्श इति ॥ ज्ञानमेवार्थो यस्य स ज्ञानार्थस्तद्भावस्तत्ता तया ज्ञानार्थतया - ज्ञानार्थत्वेन तत्रापूर्वः श्रुतस्कन्धोऽन्यस्याचार्यादेरस्ति स च भक्तं प्रत्याख्यातुकामस्ततो यद्यसौ तत्सकाशान्न गृह्यते ततोऽसौ व्यवच्छिद्यते अतस्तग्रहणार्थं ग्रामानुग्रामं द्रोतुं कल्पते, एवं दर्शनार्थतया - दर्शनप्रभावकशास्त्रार्थित्वेन, चा|रित्रार्थतया तु तस्य क्षेत्रस्यानेषणाख्यादिदोषदुष्टतया तद्रक्षणार्थ, तथा 'आयरियउवज्झाए'त्ति समाहारद्वन्द्वत्वादाचार्योपाध्यायं वा 'से' तस्य भिक्षोः 'वीसुंभेज'त्ति विष्वक्- शरीरात् पृथग्भवेत् जायेत म्रियेतेत्यर्थः, ततस्तत्र गच्छे अन्यस्याचार्यादेरभावाद् गणान्तराश्रयणार्थं अथवा 'वीसुंभेज्ज'त्ति विश्रम्भेत तस्य साधोराचार्यादिर्विश्रन्धो |भवेत् ततोऽत्यन्तरहस्य कार्य करणायेति, तथा आचार्योपाध्यायानां वा वहिस्ताद् वर्षाक्षेत्रस्य वर्त्तमानानां वैयावृत्त्यकरणतायै प्रेषितस्याचार्यादिना द्रोतुं कल्पत इति उक्तंच - " असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । नाणाइतिगसट्टा ३ वीसुंभण ४ पेसणेणं च ५ ॥ १ ॥” इति । [ अशिवेऽवमौदर्ये राजद्विष्टे भये ग्लानत्वे वा ज्ञानादित्रिकार्थं विध्वगभवनेन प्रेषणेन च ॥ १ ॥ ] Jain Education International For Personal & Private Use Only ५ स्थाना० उद्देशः २ महानद्यु तारेतरौ प्रथमप्रावृ टूपर्युषणा विहारेतरौ सू० ४१२ ४१३ ॥ ३१० ॥ www.jainelibrary.org
SR No.600229
Book TitleSthanangsutram Part 02
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy